SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनस्तुतिः । निर्भिन्नशत्रुभवभय शं भवकान्तारतार तार ममारम् | वितर त्रातजगत्रय शंभव कान्तारतारतारममारम् ॥ ९ निर्भिन्नशत्रुसंभूतभय, हे संसारकान्तारतारक, हे तार उज्ज्वल, अरं शीघ्रं मम शं सुखं देहि । हे रक्षितजगत्रय, शंभव जिन, योषित्सुरतेष्वरत अनासक्त, न रमत इत्यरमोsरममाणोऽक्रीडन्मारः कामो यत्र ॥ आश्रयतु तव प्रणतं विभया परमा रमारमानमदमरैः । १३५ स्तुत रहित जनकदम्बक विभयापरमार मारमानमदमरैः ॥ १० ॥ हे जिनकदम्बक जिनसमूह, रमा लक्ष्मीस्तव प्रणतं नरमाश्रयतु । किंभूता । विभया रोचिषा परमा प्रकृष्टा । अरं शीघ्रमानमन्तश्च ते सुराश्च तैः स्तुत वन्दित । हे विगतभय । हे न परान्मारयतीत्यपरमार । सर्वजन्तुरक्षक । हे रहित त्यक्त । कैः । काममानमदमरणैः ॥ जिनराज्या रचितं स्वादसमाननयानया नयायतमानम् । शिवशर्मणे मतं दधदसमाननयानयानया यतमानम् ॥ ११ ॥ जिनानां राज्या श्रेण्या रचितं अर्थस्य तदुक्तत्वात्कृतं मतं शासनं नोऽस्माकं शिवसुखाय स्तात् भूयात् । किंभूतया । असमे निरुपमे आननयाने मुखगमने यस्यास्तया नः इत्यत्र 'रोर्यः' इति रस्य यः । 'स्वरे वा' इति विकल्पत्वात्तस्यात्र न लुक् । आयतो विपुलो मानः पूजा प्रमाणं वा यस्य तत्तथा । दधत् धारयत् । कान् । असमाननयान् असदृशनयान् । किंभूतया जिनराज्या । अयानया अवाहनया । मतं किंभूतम् । यतमानं प्रयत्नं कुर्वाणम् ॥ शृङ्खलभृत्कनकनिभा यातामसमानमानमानवमहिताम् । For Private and Personal Use Only श्रीवज्रशृङ्खलां कजयातामसमानमानमानवमहिताम् ॥ १२ ॥ या देवी शृङ्खलाभरणभृत्सुवर्णवर्णा चास्ति तां श्रीवज्रशृङ्खलां वज्रशृङ्खलाभिधानामानम । किंभूताम् | असमानोऽसाधारणो मानः पूजा बोधो वा येषाम् । अथवा असदृशौ अनमानौ प्राणाहंकारौ येषां ते असमानमानाः । ते च मानवाश्च तैर्महिता पूजिता ताम् । कजयातां पङ्कजगताम् । असमानं निरहंकारं यथा स्यात् एवमानम नमस्कुरु । अवमं पापं तन्न विद्यते येषां तेऽनवमास्तेभ्यो हिताम् ॥ त्वमशुभान्यभिनन्दन नन्दितासुरवधूनयनः परमोदरः । स्मरकरीन्द्रविदारणकेसरिन्सुरवधूनय नः परमोदरः ॥ १३ ॥ हे अभिनन्दन जिन, त्वमशुभान्यशिवान्यकल्याणान्यपुण्यानि वा नोऽस्माकं धूनय कम्पय विनाशय । किंभूतः । नन्दिता असवः प्राणाः प्राणिनां येन । अथवा धर्मधर्मिणोः कथंचिदभेदादसुशब्देनासुमन्त एवोच्यन्ते । तथा न वधुषु नयने यस्य स तथा । यद्वा
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy