SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रश्नोत्तररत्नमाला। १२१ प्रस्थिते त्वयि शिवाय तत्क्षणं संमुमूर्छरधिपृथ्वि कुन्थवः । क्षुद्रजीव बहुलामतः परं सूचयन्त इव भाविनीं महीम् ॥ १६ ॥ यत्र यत्र चरणौ त्वयार्पितौ तत्तदास्पदमगादपापताम् । एकया पुनरपापया पुरा पापयाजनि सुरोक्तिनामतः ॥ १७ ॥ यत्र मुक्तिमगमः शमद्रुमावाप पापतुदि नार्कतापतत् । प्रीतिमीतितनुकुञ्जभञ्जने नागनागकरणं करोतु नः ॥ १८ ॥ यः पठत्यशठधीस्तव वीर स्तोत्रमेतदवधानसमेतः । तत्र भावरिपुराजिरयश्रीभाजि न प्रभवति प्रबलापि ॥ १९ ॥ इति श्रीजिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः । श्रीविमलप्रणीता प्रश्नोत्तररत्नमाला। प्रणिपत्य वर्धमान प्रश्नोत्तररत्नमालिकां वक्ष्ये । नागनरामरवन्धं देवं देवाधिपं वीरम् ॥ १॥ कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनपटीयान् । कण्ठस्थितया विमलप्रश्नोत्तररत्नमालिकया ॥ २ ॥ भगवन्किमुपादेयं गुरुवचनं हेयमपि च किमकार्यम् । को गुरुरधिगततत्त्वः सत्त्वहिताभ्युद्यतः सततम् ॥ ३ ॥ त्वरितं किं कर्तव्यं विदुषा संसारसंततिच्छेदः । किं मोक्षतरोर्बीज सम्यग्ज्ञानं क्रियासहितम् ॥ ४ ॥ किं पथ्यदनं धर्मः कः शुचिरिह यस्य मानसं शुद्धम् । कः पण्डितो विवेकी किं विषमवधीरिता गुरवः ॥ ५ ॥ किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव । मनुजेषु दृष्टतत्त्वं स्वपरहितायोद्यतं जन्म ॥६॥ १. प्रश्नोत्तररत्नमालायाः पुस्तकद्वयमस्माभिरासादितम्. तत्र प्रथममेकपत्रात्मकं शुद्धं संवेगिसाधुश्रीशान्तिविजयमुनिभिर्दत्तं क-संज्ञकम्. द्वितीयं पत्रद्वयात्मकं शुद्धं भगवान्दासश्रेष्ठिना केवलदासात्मजेन सुरतनगरात्प्रहितं ख-संज्ञकं ज्ञेयम्. २. 'जिनवरेन्द्र' क. ३. 'पद्धति ख. ४. 'सत्त्वं' क. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy