SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। श्रीदोऽपि सूत्रितयमालयवासकेलि स्त्वं पावकोऽपि हरसे हरहेतिपातम् ॥ १९॥ यत्तपत्यपि कलौ जिन प्रभाचार्यमन्त्रमनुशीलतां स्फुरेत् । हेतुतात्र खलु तत्त्वदेकताध्यानपारमितयैव गृह्यते ॥ २० ॥ मयैवं दुर्दैवं शमयितुमलंभूष्णुमहिमा स्तुतस्त्वं लेशेन श्रुतरथधुरागोतम गुरो । कुरूद्दयोतं क्लीवद्दिनपतिसुधागौ तमसि मे प्रभो विद्यामन्त्रप्रभव भवते गोतम नमः ॥२१॥ इति श्रीजिनप्रभाचार्यविरचितं गोतमस्तोत्रम् । श्रीजिनप्रभाचार्यविरचितः श्रीवीरस्तवः। कंसारिक्रमनिर्यदापगाधाराशुद्धविराट्छदच्छविम् । छन्दोभिर्विविधैरधीरधीस्तोष्येऽहं चरमं जिनेश्वरम् ॥ १ ॥ त्रैलोक्यनेतस्तव दुर्नयालीनिर्नाशनं शासनमाश्रितो यः । तस्येन्द्रवज्रायुधमाविरस्ति दुष्कर्मशैलेन्द्रभिदाविधाने ॥ २ ॥ किमेकमाश्चर्यकरं न ते यत्पुष्पंधयोऽप्येष विशेषविज्ञः । त्यक्तोपजातिभ्रमणाभिलाषस्त्वदङ्गसौगन्ध्यमनुप्रयाति ॥ ३ ॥ यः सृजत्यजरसौरभसारैरम्बुजैस्तव पदाम्बुजपूजाम् । प्रेत्य तस्य दिवि देवमृगाक्ष्यः स्वागतानि निगदन्ति सरागम् ॥४॥ वानिवारणरथोद्धता भटैरुद्भटा सुभगभोगभङ्गिभृत् । राज्यऋद्धिरुपनंनमीति तं नंनमीति तव यः पदौ मुदा ॥ ५ ॥ नाकिनिकायकरप्रहतानां संप्रसरन्गगने मुरजानाम् । जन्ममहे तव कस्य न जज्ञे दत्तमदो धकधोंकृतिनादः ॥ ६ ॥ ये भक्त्यात्तभ्रमरविलसिता जाताः पादाम्बुरुहि तव विभो । तैः श्रेयश्रीर्मधुरमधुरसास्वादासादात्समजनि कृतिभिः ॥ ७ ॥ For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy