SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपार्श्वनाथस्तवः । १०७ इमां समक्ष प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे । न वीतरागात्परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥ २८ ॥ न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु त्वामेव वीर प्रभुमाश्रिताः स्मः ॥ २९ ॥ तमःस्पृशामप्रतिभासभाजं भवन्तमप्याशु विविन्दते याः ।। महेम चन्द्रांशुशा (2) वदातास्तास्तर्कपुण्या जगदीश वाचः ॥ ३० ॥ यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥ ३१ ॥ इदं श्रद्धामात्रं तदथ परनिन्दां मृदुधियो विगाहन्तां हन्तः प्रकृतिपरवादव्यसनिनः । अरक्तद्विष्टानां जिनवर परीक्षाक्षमधिया मयं तत्त्वालोकस्तुतिमयमुपाधि विधृतवान् ॥ ३२ ॥ इति श्रीहेमचन्द्रसूरिविरचितमयोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरस्वामिस्तोत्रम् । श्रीजिनप्रभसूरिविरचितः श्रीपार्श्वनाथस्तवः। का मे वामेयशक्तिर्भवतु तव गुणस्तोमलेशप्रशस्तौ न स्याद्यस्यामधीशः सुरपतिसचिवस्यापि वाणीविलासः । माने वा वार्धिवारां कलयति क इव प्रौढिमारूढधारां ___ भक्तिव्यक्तिप्रयुक्तस्तदपि किमपि ते संस्तवं प्रस्तवीसि ॥ १ ॥ संसाराम्भोधिवेला निबिडनडमतिध्वान्तविध्वंसहंसः श्यामाश्यामाङ्गधामा (१) शठकमठतपोधर्मनिर्माथपाथः । स्फारस्फूर्जत्फणीन्द्र प्रगुणफणमणिज्योतिरुद्दयोतिताशा चक्रश्चक्रिध्वज त्वं जय जिन विजितद्रव्यभावारिवार ॥२॥ १. पार्श्वनाथस्तवादिस्तोत्रषटुं जिनप्रभसूरिप्रणीतमस्मभ्यं सूरतनगरवासिना केवलदासात्मजेन भगवान्दासश्रेष्ठिना प्रहितम्. पुस्तकान्तरं चास्य नोपलब्धमिति. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy