SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। आत्मारामतया तथा क्षणमपि प्रोज्झ्य प्रमादद्विषं __ स्वार्थाय प्रयतामहे यदि तदा सर्वार्थसिद्धिर्भवेत् ॥ ४ ॥ पाखण्डानि सहस्रशो जगृहिरे ग्रन्था भृशं पेठिरे लोभाज्ञानवशात्तपांसि बहुधा मूढैश्चिरं तेपिरे । कापि क्वापि कथंचनापि गुरुभिर्भूत्वा मदो भेजिरे कर्मक्लेशविनाशसंभवविमुख्या(मुखा)न्यद्यापि नो लेभिरे ॥ ५ ॥ किं भावी नारकोऽहं किमुत बहुमवी दूरभव्यो न भव्यः किं वाहं कृष्णपक्षी किमचरमगुणस्थानकं(?) कर्मदोषात् । वह्निज्वालेव शिक्षा व्रतमपि विषवत्खड्गधारा तपस्या स्वाध्यायः कर्णसूची यम इव विषमः संयमो यद्विभाति ॥ ६ ॥ वस्त्रं पात्रमुपाश्रयं बहुविधं भैक्षं चतु!षधं शय्यापुस्तकपुस्तकोपकरणं शिष्यं च शिक्षामपि । गृह्णीमः परकीयमेव सुतरामाजन्मवृद्धा वयं यास्यामः कथमीदृशेन तपसा तेषां हहा निष्क्रयम् ।। ७ ।। अन्तर्मत्सरिणां बहिः शमवतां प्रच्छन्नपापात्मनां नद्यम्भःकृतशुद्धिमद्यपवणिग्दुर्वासनाशात्मिनाम्(?) । पाखण्डव्रतधारिणां बकदृशां मिथ्यादृशामीदृशां ___ बद्धोऽहं धुरि तावदेव चरितैस्तन्मे हहा का गतिः ॥ ८ ॥ येषां दर्शनवन्दनप्रणमनस्पर्शप्रशंसादिना मुच्यन्ते तमसा निशा इव सिते पक्षे प्रजास्तत्क्षणात् । तादृक्षो अपि सन्ति केऽपि मुनयस्तेषां नमस्कुर्महे __ संविना वयमात्मनिन्दनमिदं कुर्मः पुनर्बोधये ॥ ९ ॥ रागो मे स्फुरति क्षणं क्षणमथो वैराग्यमुज्जृम्भते द्वषो मां भजति क्षणं क्षणमथो मैत्री समालिङ्गति । दैन्यं पीडयति क्षणं क्षणमथो हर्षोऽपि मां बाधते कोपेयं कृपणोऽकृपापरिवृतैः(2) कार्य हहा कर्मभिः ॥ १०॥ इत्यात्मनिन्दाष्टकम् । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy