SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org काव्यमाला । Acharya Shri Kailassagarsuri Gyanmandir अङ्गुष्ठादिषु आदिशब्दाद्दीपजलादिष्ववतारोऽवतरणं तेन दिष्टाः कथिता देवता यासां तासामुदात्तवैभवानामुत्कृष्टमहिम्नां विद्यानां भवनं स्थानम् | आश्रवविधिः कर्म पुद्गलानां संवरस्तनिरोधः । निर्णीतं तयोः स्वरूपं यासु ताः प्रश्नव्याकरणदशा दशमाङ्गं नोऽस्माकं शं सुखं दिशतु || 1 ज्ञातैर्मृगापुत्रसुबाहुवादिभिः शासद्विपाकं सुखदुःखकर्मणाम् । द्विः पङ्किसंख्याध्ययनोपशोभितं श्रीमद्विपाक श्रुतमस्तु नः श्रिये ॥ २० ॥ मृगापुत्रसुत्राहुवादिभिर्दृष्टान्तैः सुखदुःखकर्मणां विपाकं परिणामं शासच्छिक्षयत् । ज्ञापयदित्यर्थः । केषाम् । भव्यजीवानामिति गम्यम् । विंशत्यध्ययनालंकृतं श्रीमद्विपाकश्रुतमेकादशमङ्गं नः श्रियेऽस्तु । सुबाहुवादिभिरित्यत्र 'इवणीदे:' इत्यनेन सूत्रेण परतो वस्वम् । एतान्यप्येकादशान्यङ्गानि श्रीसुधर्मस्वामिना रचितानि । अन्येषां गणभृतां पूर्वनिर्वृतत्वेन सर्वगणधर शिष्याणामेतद्वाच नाग्रहणात् । अत एवादी श्रीसुधर्मा नमस्कृतः ॥ प्रणिधाय यत्प्रवृत्ता शास्त्रान्तरवर्णनातिदेशततिः । नमतोपपातिकं तत्प्रकटयदुपपादवैचित्रीम् ॥ २१ ॥ यत्प्रणिधाय स्मृत्वा शास्त्रान्तरेषु पदार्थवर्णनातिदेशनाततिः श्रेणिः प्रवृत्ताः । अतिदेशोsन्यत्र विस्तरेण प्ररूपितस्य वस्तुनः संक्षेपेण कथनम् । तदुपपातिकमाचाराङ्गोपाङ्ग देवनारकाणामुपपाद उत्पादस्तस्य वैचित्रीं प्रकटयत् हे विद्वांसः, यूयं नमत | आचाराङ्गस्य शास्त्रपरिज्ञाध्ययनाख्ये द्वे शतके । सूत्रमिदं 'एवमेगे सिनोनायं भवइ' इत्यादि । अत्र सूत्रे यदौपपातिकत्वमात्मनो निर्दिष्टं तदत्र प्रपश्यत इत्यर्थः । अङ्गस्योपसमीप उपाङ्गम् ॥ सूर्याभवैभवविभावनहृष्टतीर्थप्रश्नादनन्तरमिनानननिर्गतेन । केशिप्रदेशिचरितेन विराजि राजप्रश्नीयमिद्धमुपपत्तिशतैर्महामि ॥ २२ ॥ सूर्याभदेवस्य वैभवमृद्धिस्तस्य विभावनेनीक्षणेन हृष्टं यत्तीर्थे प्रथमगणधरश्चतुर्विधः संघो वा तस्य प्रश्नात्पृच्छाया अनन्तरमिनस्य श्रीवीरस्याननं मुखं ततो निर्गतेन । केशी गणभृत् प्रदेशी च राजा तयोश्चरितेन विराजि शोभि । उपपत्तिशतैर्युक्तिशतैरिद्धं दीप्तं राजप्रश्नीयं सूत्रकृदुपाङ्गमहं महामि । प्रदेशी केशिना प्रतिबोधितो देवत्वमाप्य श्रीवीरं वन्दितुं समवसृतौ गतः तत्रात्यद्भुतं तस्य तेजो वीक्ष्य श्रीसंघेन प्रश्नः कृतः सर्वेभ्यो देवेभ्यो किमित्ययमुत्कृष्ट इति ॥ For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy