SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वैराग्यशतकम् । आसीद्यावदनङ्गसंगतिरसस्तावत्तवेयं स्थितिः संप्रत्यास्यपुरःसरामपि न तां द्रष्टासि कोऽयं लयः ॥ १० ॥ योगे पीनपयोधराश्चिततनोविच्छेदने बिभ्यतां मानस्यावसरे चटूक्तिविधुरं दीनं मुखं बिभ्रताम् । विश्लेषस्मरवह्निनानुसमयं दन्दह्यमानात्मनां Acharya Shri Kailassagarsuri Gyanmandir भ्रातः सर्वदशासु दुःखगहनं धिक्कामिनां जीवितम् ॥ ११ ॥ मध्ये स्वां कृशतां कुरङ्गकदृशो भूनेत्रयोर्वक्रतां कौटिल्यं चिकुरेषु रागमधरे मान्द्यं गतिप्रक्रमे । काठिन्यं कुचमण्डले तरलतामक्ष्णोर्निरीक्ष्य स्फुटं १० ७३ वैराग्यं न भजन्ति मन्दमतयः कामातुरा ही नराः ॥ १२ ॥ पाण्डुत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं चक्षुः क्षीणवलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् । स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमांसत्वचः पश्यन्तोऽपि जड़ा हहा हृदि सदा ध्यायन्ति तां प्रेयसीम् १३ . अन्यायार्जितवित्तवत्क्वचिदपि भ्रष्टं समस्तै रदै - स्तापक्रान्ततमालपत्रवदभूदङ्गं वलीभङ्गुरम् | केशेषु क्षणचन्द्रवद्धवलिमा व्यक्तं श्रितो यद्यपि स्वैरं धावति मे तथापि हृदयं भोगेषु मुग्धं हहा ॥ १४ ॥ उद्गुणन्ति प्रपञ्चेन योषितो गदां गिरम् । तामामनन्ति प्रेमोक्ति कामग्रहिलचेतसः ॥ १५ ॥ यावद्दुष्टरसक्षयाय नितरां नाहारलौल्यं जितं सिद्धान्तार्थमहौषधेर्निरुपमचूर्णो न जीर्णो हृदि । पीतं ज्ञानलघूदकं न विधिना तावत्स्मरोत्थो ज्वरः शान्ति याति न तात्त्विक हृदय हे शेषैरलं भेषजैः ॥ १६ ॥ शृङ्गारद्रुमनीरदे प्रसृमर क्रीडारसत्रोतसि प्रद्युम्नप्रियवान्धवे चतुरवाङ्मुक्ताफलोदन्वति । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy