SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । तपस्तीनं तप्तं चरणमपि चीर्ण चिरतरं न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम् ॥ ८ ॥ अथ वैराग्यप्रक्रमः। यदशुभरजःपाथो दृप्तेन्द्रियद्विरदाङ्कुशं कुशलकुसुमोद्यानं माद्यन्मनःकरिशृङ्खला । विरतिरमणीलीलावेश्म स्मरज्वरभेषजं शिवपथरथस्तद्वैराग्यं विमृश्य भवाभयः ॥ ८९॥ चण्डानिलः स्फुरितमब्दचयं दवाचि वृक्षत्र तिमिरमण्डलमर्कबिम्बम् । वज्रं महीध्रनिवहं नयते यथान्तं वैराग्यमेकमपि कर्म तथा समग्रम् ॥ ९० ॥ नमस्या देवानां चरणवरिवस्या शुभगुरो__ स्तपस्या निःसीमक्लमपदमुपास्या गुणवताम् । निषद्यारण्ये स्यात्करणदमविद्या च शिवदा विरागः क्रूरागःक्षपणनिपुणोऽन्तः स्फुरति चेत् ॥ ९१ ॥ भोगान्कृष्णभुजंगभोगविषमानराज्यं रजःसंनिभं बन्धून्बन्धनिबन्धनानि विषयग्रामं विषान्नोपमम् । भूति भूतिसहोदरां तृणतुलं स्त्रैणं विदित्वा त्यजं स्तेष्वासक्तिमनाविलो विलभते मुक्ति विरक्तः पुमान् ॥ ९२ ॥ जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥ ९३ ॥ त्रिसंध्यं देवार्ची विरचय चयं प्रापय यशः श्रियः पात्रे वापं जनय नयमार्ग नय मनः । स्मरक्रोधाद्यारीन्दलय कलय प्राणिषु दयां जिनोक्तं सिद्धान्तं शृणु वृणु जवान्मुक्तिकमलाम् ॥ ९४ ॥ १. 'चारित्रं' इति टीका. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy