SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | वस्त्वालोकमलोचनश्चलमना ध्यानं च वाञ्छत्यसौ यः स गुणिनां विमुच्य विमतिः कल्याणमाकाङ्क्षति ॥ ६९ ॥ हरति कुमतिं भिन्ते मोहं करोति विवेकितां वितरति रतिं सूते नीति तनोति विनीतताम् । प्रथयति यशो धत्ते धर्मं व्यपोहति दुर्गति जनयति नृणां किं नाभीष्टं गुणोत्तमसंगमः ॥ ६६ ॥ लब्धुं बुद्धिकलापमापदमपाकर्तुं विहर्तुं पथि प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्मं समासेवितुम् । रोद्धुं पापविपाकमाकलयितुं स्वर्गापवर्गश्रियं त्वं चित्त समीहसे गुणवतां सङ्गं तदङ्गीकुरु ॥ ६७ ॥ हिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे द्विरदति दयारा क्षेमक्षमाभृति वज्रति । समिति कुमत्यनौ कन्दत्यनीतिलतासु यः किमभिलषतां श्रेयः श्रेयान्स निर्गुणि संगमः ॥ ६८ ॥ अथेन्द्रियप्रक्रमः । आत्मानं कुपथेन निर्गमयितुं यः सुकलाश्वायते कृत्याकृत्यविवेकजीवितहतौ यः कृष्णसर्पायते । यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते तं लुप्तत्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुर्भव ॥ ६९ ॥ प्रतिष्ठां यन्निष्ठां नयति नयनिष्ठां विघटय त्यकृत्येष्वाधत्ते मतिमतपसि प्रेम तनुते । विवेकस्योत्सेकं विदलयति दत्ते च विपदं पदं तद्दोषाणां कैरणनिकुरुम्बं कुरु वशे ॥ ७० ॥ वत्तां मौनमगारमुज्झतु विधिप्रागल्भ्यमभ्यस्यतामैस्त्वन्तर्वणमागमश्रममुपादत्तां तपस्तप्यताम् । १. 'अपाहर्ते' ख. २. 'दमारामे' ख. ३. 'श्रेयः' क-ख. ४. 'शुकल' क. 'सूकलाश्वायते दुर्विनीततुरंग इवाचरति' इति टीका. ५. इन्द्रियसमूहम् ६. वने तिष्ठतु. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy