SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३४ www.kobatirth.org काव्यमाला | कुर्वन्तु भव्यनिवहस्य नभोगतानां म श्रियं कृतमुदं जनभोगतानाम् ॥ १९ ॥ Acharya Shri Kailassagarsuri Gyanmandir संस्तूयसे शुभवता मुनिना येकेन नीतो जिनाशु भवता मुनिनायकेन । नाथेन नाथ मुनिसुव्रत मुक्तमानां मुक्तिं चरन्स मुनिसुव्रतमुक्तमानाम् ॥ २० ॥ चित्तेन मेरुगिरिधीर दयालुनासि सर्वोपकारकृतधीरदया लुनासि । इत्थं स्तुतो नमिमुनिर्मम तापसानां लक्ष्मी करोतु मम निर्ममतापसानाम् ॥ २१ ॥ येनोद्धैशृङ्गगिरनारगिराविनापि नेमिः स्तुतोऽपि पशुनापि गिरा विनापि । कंदर्पदर्पदलनः क्षतमोहतान स्तस्य श्रियो दिशतु दक्षतमोऽहता नः ॥ २२ ॥ गन्धर्वयक्षनरकिंनर दृश्यमानः प्रीति करिष्यति न किं नैरदृश्यमानः । भानुप्रभाप्रविकसत्कमलोपमायां पार्श्वः प्रसूतजनताकमलोsपमायाम् ॥ २३ ॥ श्री वर्धमानवचसा परंमाकरेण रत्नत्रयोत्तमनिधेः पैरैमाकरेण । कुर्वन्ति यानि मुनयोऽजनता हि तानि वृत्तानि सन्तु सततं जनताहितानि ॥ २४ ॥ १. देवानां जनभोगस्य तानो विस्तारो यस्यां तां श्रियं भव्यनिवहस्य कुर्वन्तु. २. यकेन येन. ३. कथितप्रमाणाम्. ४. निःशेषेण मतामपस्यन्तीति निर्ममतापसास्तेषाम्. ५. उद्धशब्दः प्रशंसावचनः प्रशस्तशिखरे गिरिनारिपर्वते. ६. इना कामेनापि. ७. मनुष्यमात्रदृष्टौ ८. प्रसूता प्रकटीकृता जनतार्थ कमला लक्ष्मीर्येन. ९, श्रीमहावीरस्वामिवाक्येन. १०. परमेणाकरेण खनिरूपेण ११. परलक्ष्मीकरेण. १२. जनतातो बहिर्भूताः अलौकिका इत्यर्थः . For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy