SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६ www.kobatirth.org काव्यमाला | ध्वस्तोर्ध्वकेशविकृताकृति मर्त्यमुण्डप्रालम्बभृद्भयदवऋविनिर्यदग्निः । प्रेतत्रजः प्रति भवन्तमपीरितो यः सोऽस्याभवत्प्रतिभवं भवदुःखहेतुः ॥ ३३ ॥ धन्यास्त एव भुवनाधिप ये त्रिसंध्यमाराधयन्ति विधिवद्विधुतान्यकृत्याः । Acharya Shri Kailassagarsuri Gyanmandir भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशाः पादद्वयं तव विभो भुवि जन्मभाजः ॥ ३४ ॥ अस्मिन्नपारभववारिनिधौ मुनीश मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोत्र पवित्रमन्त्रे किं वा विपद्विषधरी सविधं समेति ॥ ३५ ॥ जन्मान्तरेऽपि तव पादयुगं न देव मन्ये मया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश पराभवानां जातो निकेतनमहं मथिताशयानाम् ॥ ३६ ॥ नूनं न मोहतिमिरावृतलोचनेन पूर्वं विभो सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति हि मामनर्थाः प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ॥ ३७ ॥ आणितोऽपि महितोऽपि निरीक्षितोऽपि नूनं न चेतसि मया विधृतोऽसि भक्त्या । जातोऽस्मि तेन जनबान्धव दुःखपात्रं यस्मात्क्रियाः प्रतिफलन्ति न भावशून्याः ॥ ३८ ॥ त्वं नाथ दुःखिजनवत्सल हे शरण्य कारुण्यपुण्यवसते वशिनां वरेण्य । १. गोत्रं नाम. २. मर्मभेदकाः. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy