SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्याणमन्दिरस्तोत्रम् । पूतस्य निर्मलरुचेर्यदि वा किमन्य दक्षस्य संभवपदं ननु कर्णिकायाः ॥ १४ ॥ ध्यानाजिनेश भवतो भविनः क्षणेन देहं विहाय परमात्मदशां व्रजन्ति । तीवानलादुपलभावमपास्य लोके ___ चामीकरत्वमचिरादिव धातुभेदाः ॥ १५ ॥ अन्तः सदैव जिन यस्य विभाव्यसे त्वं __भव्यैः कथं तदपि नाशयसे शरीरम् । एतत्स्वरूपमथ मध्यविवर्तिनो हि यद्विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥ आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं किं नाम नो विषविकारमपाकरोति ॥ १७ ॥ त्वामेव वीततमसं परवादिनोऽपि नूनं विभो हरिहरादिधिया प्रपन्नाः । कि कोचकामलिभिरीश सितोऽपि शङ्खो नो गृह्यते विविधवर्णविपर्ययेण ॥ १८ ॥ धर्मोपदेशसमये सविधानुभावा दास्तां जनो भवति ते तरुरप्यंशोकः । अभ्युद्गते दिनपतौ समहीरुहोऽपि किं वा विबोधमुपयाति न जीवलोकः ॥ १९ ॥ चित्रं विभो कथमवाङ्मुखवृन्तमेव विष्वक्पतत्यविरला सुरपुष्पवृष्टिः । १. अक्षस्य पद्मबीजस्य. २. 'संभविपदं' इति पाठः. ३. काचकामलादयो नेत्ररोगास्ताक्तैः. ४. श्रीपार्श्वनाथोऽशोकवृक्षतले स्थितवान्. 'उच्चैरशोकतरुसंश्रितं' इति भक्तामरस्तवेऽपि. .... For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy