SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९ सर्गः] धर्मशर्माभ्युदयम् । १२९ प्रसह्य रक्षत्यपि नीतिमक्षतामभूदँनीतिः मुखभाजनं जनः । भयापहारिण्यपि तत्र सर्वतः को नाम नासीत्प्रंभयान्वितः क्षितौ ॥६४] त्रिसंध्यमागत्य पुरंदराज्ञया सुराङ्गना दर्शितभूरिविभ्रमाः । वितन्वते स्म स्मरराजशासनं सुखाय संगीतकमस्य वेश्मनि ॥६५॥ वक्राब्जेन जयश्रियं विकसता क्रोडीकृतां दर्शय___ न्हस्तोदस्तजयध्वजेन विदधद्वयक्तामथैनां पुनः । एक: प्राप सुपेणसैन्यपतिना संप्रेषितः संसदं __ तस्यानेकनृपप्रवर्तितसँमिहृत्तान्तविद्वार्तिकः ॥ ६६ ॥ प्रणतशिरसा तेनानुज्ञामवाप्य जगत्पतेः कथयितुमुपक्रान्ते मूलादिहाजिपराक्रमे । श्रवणमयतामन्यान्यापुस्तदेकरसोदया दपरविषयव्यावृत्तानीन्द्रियाणि सभासदाम् ॥ ६७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशाभ्युदये महाकाव्येऽष्टादशः सर्गः । एकोनविंशः सर्गः । आहवक्रममामूलमथ दूतः पुरः प्रभोः । आह वंक्रममामूलमिति विद्वेषिभूभुजाम् ॥ १ ॥ कार्यशेषमशेषज्ञोऽशेपयित्वा स निर्ययौ । यावत्संबन्धिनो देशात्सुपेणः सह सेनया ॥ २ ॥ तावदङ्गादयः क्षोणीभुजो दाराधियातया । वामयास्यानुजग्मुस्ते भुजोदारा धिया तया ॥ ३ ॥ (युग्मम्) अथ तैः प्रेषितो दूतः पृथ्वीनार्थयुयुत्सुभिः । साक्षाद्गर्व इवागत्य तमवोचच्चमपतिम् ॥ ४ ॥ १. नीतिरहितः; (पक्षे) स्वचक्रपरचक्रादि-ईतिरहितः, २. प्रकृष्टभयेन; प्रभया कान्त्या च. ३. युद्धवातीभिज्ञः. वातिको वार्ताहरी दत:. ४. अस्मिन्सर्गे आदर्शपुस्तके यमकादिषु संक्षिप्तं टिप्पणं क्वचिद्वर्तते प्रायस्तदेवात्र गृहीतम्. ५. वक्रं विषमम्, अत एव अमामूलमलक्ष्मीकाणम्. ६. दारसंबन्धी य आधिस्तेन यातया प्राप्तया धिया. ७. वामया वक्रयेति धियेत्यस्य विशेषणम्. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy