SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra __www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ सर्गः] धर्मशर्माभ्युदयम्। अयं स कामो नियतं भ्रमेण कमप्यधाक्षीगिरिशस्तदानीम् । इत्यद्भुतं रूपमवेक्ष्य जैनं जनाधिनाथाः प्रतिपेदिरे ते ॥ ६ ॥ अथोऽङ्गिनां नेत्रसहस्त्रपात्रं निर्दिष्टमिष्टेन स मञ्चमुच्चैः । सोपानमार्गेण समारुरोह हैमं मरुत्वानिव वैजयन्तम् ॥ ७ ॥ सिंहासने शृङ्ग इवोदयाद्रेस्तत्र स्थितो रत्नमये कुमारः । स तारकाणामिव भूपतीनां प्रभां पराभूय शशीव रेजे ॥ ८ ॥ उल्लासितानन्दपयःपयोधौ पीयपधानीव विशेपरम्ये । कासां न नेत्राणि पुराङ्गनानां दृष्टेऽपि तन्दुमणीबभूवुः ॥ ९ ॥ इक्ष्वाकुमुख्यक्षितिपालकीर्ति पठत्स्वथो मङ्गलपाठकेषु । दृप्तस्मरास्फालितकार्मुकज्यानिर्बोषवन्मूर्छति तूर्यनादे ॥ १० ॥ करेणुमारुह्य पतिवरा सा विवेश चामीकरचारुकान्तिः । विस्तारिमञ्चान्तरमन्तरिक्षं कादम्बिनी लीनतडिल्लतेव ॥११॥ (युग्मम्) सा वागुरा नेत्रकुरङ्गकाणाभनङ्गमृत्युंजयमन्त्रशक्तिः । शृङ्गारभूवल्लभराजधानी जगन्मनःकामणमेकमेव ॥ १२ ॥ लावण्यपीयूपपयोधिवेला संसारसर्वस्वमुदारकान्तिः । एकाप्यनेकैर्जितनाकनारी नृपैः सकामं ददृशे कुमारी ॥१३॥ (युग्मम्) एतां धनुर्यष्टिमिवैष मुष्टिप्रायैकमध्यां समवाप्य तन्वीम् । नृपानशेषानपि लाघवेन तुल्यं मनोभूरिषुभिर्जघान ॥ १४ ॥ यद्यत्र चक्षुः पतितं तदङ्ग तत्रैव तत्कान्तिजले निमन्नम् । शेषाङ्गमालोकयितुं सहस्रनेत्राय भूपाः स्टहयांबभूवुः ॥ १५ ॥ पयोधर श्रीसमये प्रसर्पहारावलीशालिनि संप्रत्ते । सा राजहंसीव विशुद्धपक्षा महीभृतां मानसमाविवेश ॥ १६ ॥ स्वभावशोणौ चरणौ दधत्या न्यस्ते पदेऽन्तः स्फटिकावदातम् । उपाधियोगादिव भूपतीनां मनस्तदानीमतिरक्तमासीत् ॥ १७ ॥ १. इन्द्रः. २. एतन्नामकं निजप्रासादम्. ३. यौवने, प्राधि च. ४. हारावलो, धारावली च. ५. शुद्धमातापिटकुला, शुक्लोभयपतत्रा च. ६. हृदयं, सरोविशेषं च. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy