SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३ सर्गः] धर्मशर्माभ्युदयम् । धुतकरवलयस्वनं निशम्य प्रतियुवतेरलिखण्डिताधरायाः । अविहितकथया कयापि सेयं विवलितकंधरमैक्षि जीवितेशः॥ ५३॥ अकलुषतरवारिभिविभिन्नास्वभिनवपत्रलतासु कामिनीनाम् । नखपदविततिर्दधौ कुचान्तर्भुवि परिशेषितरक्तकन्दलीलाम् ॥ ५४ ॥ अविरतजलकेलिलोलकान्तास्तनकलशच्युतकुङ्कुमैस्तदानीम् । कृतबहलविलेपनेव रेवा पतिमकरोत्सरितामतीव रक्तम् ॥ ५५ ॥ अहमुदयवता जनेन नीचैःपथनिरतापि यदृच्छयोपभुक्ता । इति सरलितवीचिबाहुदण्डा प्रमदभरादिव वाहिनी ननत ॥ १६ ॥ दिनमवलमथो गृहान्प्रयाथ क्षणमहमप्यभयं भजामि कान्तम् । इति करुणरुतेन चक्रवाक्या समभिहिता इव ताः प्रयातुमीषुः ॥ ५७ ॥ इति कृतजलकेलिकौतुकास्ताः सह दयितैः सुदृशस्ततोऽवतेरुः । कलुषितहृदयस्तदा नदोऽपि प्रकटमभूदिव तद्वियोगदुःखैः ॥ १८ ॥ जलविहरणकलिमुत्सृजन्त्याः कचनिचयः क्षरदम्बुरम्वुजाक्ष्याः । परिविदितनितम्बसङ्गसौख्यः पुनरपि बन्धभियेव रोदिति स्म ।। ५९ ॥ मुखशशिविमुखीकृतावतारे सतमसि पक्ष इवोच्चये कचानाम् । अविरलजलबिन्दवस्तदानीमुडुनिकरा इव रेजिरे वधूनाम् ॥ ६ ॥ प्रणयमथ जलाविलांशुकानां मुमुचुरुदारदृशः क्षणात्तदानीम् । ध्रुवमवगणयन्ति जाड्यभीत्या स्वयमपि नीरसमागतं विदग्धाः ॥ ६१ ॥ अतिशयपरिभोगतोऽम्बुलीलारसमयतामिव सुभ्रुवोऽभिजग्मुः । सितसिचयपदाद्यदुत्तरङ्ग पुनरपि भेजुरिमाः पयःपयोधिम् ॥ ६२ ॥ मैरुदपहृतकंकणापि कामं करकलितामलकणा तदानीम् । कचनिचयविभूषितापि चित्रं विकचसरोजमुखी रराज काचित् ।। ६३ ॥ अनुकलितगुणस्य सौमनस्यं प्रकटमभूत्कुसुमोच्चयस्य तेन । अहमहमिकया स्वयं वधूभिर्यदयमधार्यत मूर्ध्नि संभ्रमेण ॥ ६४ ॥ समुचितसमयेन मन्मथस्य त्रिभुवनराज्यपदे प्रतिष्ठितस्य । मृगमदतिलकच्छलान्मृगाक्षी न्यधित मुखे नवनीलमातपत्रम् ॥६५॥ १. समाप्तप्रायम्. २, नीर-समागतम्; नीरसं-आगतम्. ३. पवनापनीतजलकणापि. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy