SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा ३० धर्म | स्वयंप्रभावं स च मम च्यवनात्पूर्व च्युतः परं न ज्ञायते कुत्रोत्पन्न इति, छातोऽय तत्प्राप्तये यनं कुरु ? पंडितापि सख्योक्तं वृत्तांतं श्रुत्वा पूर्ववचरित्रं पट्टे लिखित्वांगणोपांते वज्रसेनस्य चकि णः सेवागतानां कुमाराणां सर्वेषामदर्शयत् तं दृष्ट्वा वज्रजंघोऽपि जातजातिस्मृतिश्चिंतयति, हो पूर्वभवः केन ज्ञानवता प्रोक्तः ? नया पंडितया च कथं पट्टे लिखितः ? ततः पंडितायाः सर्व वृत्तांतं ज्ञात्वा वज्रसेनश्च की वज्रजंघ श्रीमत्योः पाणिग्रहणमकारयत्। ततो वज्रजंघः श्वशुरमापृच्छा लोहार्गलपुरं गतः, पित्रा च राज्ये निवेश्य स्वयं दीक्षा जगृहे. वज्रसेनोऽपि चत्री पुष्कलपालाख्यं पुत्रं राज्ये न्यस्य स्वयं दीक्षां गृहीत्वा तीर्थकरो मुनिर्जज़े. अन्यदा पुष्कल पालक्षमापालं श त्रुभिरावृतं श्रुत्वा वज्रजघोऽस्य साहाय्यं कर्तुं समाययौ तत्र शत्रून् विनिर्जित्य श्रीमत्या सहितो यावता स निजं पुरं व्रजति तावता स्वभ्रातरौ केवलिनौ मुनिसत्तमौ मार्गे मिलितौ तौ नमस्कृत्य वज्रघश्चिंतयति हो मम मंदभाग्यता ! हो मम मतिहीनता ! यदहं पितुरुविष्टां लक्ष्मीं प्रासवान् एतौ मम सोदरौ तु चारित्रसाम्राज्यं प्रापतुः यतोऽधुनैव स्वपुरं गत्वा स्वसूनवे च राज्यं दत्वा चारित्राशनिनादं कर्मद्रुमं भस्मीकरोमि इति चिंतयित्वा स लोहार्गलपुरं गतः, प्रातः सूनवे For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy