________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म
मंजूषा
२३४
नपुरे चतुरंगसेनासमन्वितो विद्यामंत्रलिष्टः शालिवाहननामा राजा प्रकटीव नूव, स एकदा समा । गत्य विक्रमार्कस्य कतिचिद् ग्रामान हत्व। पुनर्निज नगरं जगाम, एतत्स्वरूपं वीदय नट्टमात्रो में त्री जगी, हे स्वामिन् ! शालिवाहन नृपतिनवतो ग्रामान हत्वा याति, एतत्सुंदरं न दृश्यते, अतः कटक कृत्वा तत्र गम्यते. तं च वशीकृत्य सेवकी क्रियते. सति सामर्थ्य न्यपरान को मर्त्यः सहते, यतः-न्यकारं सहते सिंहो-ऽन्येषां नैव कदाचन ॥ परानवं सहंते तु । शृगालाः कातराशयाः ॥ १॥ नृपः प्राह नो मंत्रीश! त्वया सत्यं प्रोक्तं, परं भूभुज नपायानां चतुष्केण कार्य कुर्वति, यदि साम्ना कार्य सिध्यति तर्हि किं क्रियते दाना, दाना यदि कार्य सिध्येत तदा नेदेन, यदा ने. देन कार्य सिध्येत तदा दंडेन किं क्रियते ? पुनर्मत्री नट्टमात्रो जगौ स्वामिस्तार्हे तत्र दूनः प्रथम प्रेष्यते, ततः शालिवाहनो यदा दूतवचनं न मन्यते तदा तं विजेतुमुपक्रमः क्रियते.
एवं विमृश्य महीशेन रिपुंप्रति प्रेषितो दृतः प्रतिष्टानपुरे शालिवाहनसंसदि गत्वा विक्रमार्क नृपोदितमिति जगाद, हे शालिवाहन नृपते ! त्वयैतहरं न कृतं, यत्त्वया विक्रमार्कस्य ग्रामा नमाः, अथ तत्रागत्य तस्य नृपस्य सांप्रतं मिलित्वा वापराधं दम्यतां ? अन्यथा सांप्रतं त्वां विजेतुं वि.
For Private And Personal Use Only