SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथैकस्य नृपतेहवोऽपि समाश्रिवाः / दरासमादिभेदेन तभृत्याः सर्व एव / सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः / सर्वे तत्तत्वगा ज्ञेया भिन्नाचारस्थिता अपि // न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् / वथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः // " इति / न च परेषां सर्वज्ञभक्तेरेवानुपपत्तिः, तेषामप्यध्यात्मशास्त्रेषु चित्राचित्रविभागेन भक्तिवर्णनात्, संसारिणां विचित्रफलार्थिनां नानादेयेषु चित्रभक्तः, एकमोक्षार्थिनां चैकस्मिन् सर्वज्ञे चित्रभक्त्युपणटना / तथा च हारिभद्रं वचः " चित्राचित्रविभागेन यच्च देवेषु वर्णिता / भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् / / संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् / तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् / / चित्रा चायेषु तद्राग-तदन्यद्वेषसंगता। अचित्रा चरमे त्वेषा शमसाराऽखिलैव हि // " इति / प्राप्यस्य मोक्षस्य चैकत्वात् तदर्थिनां गुणस्थानपरिणतितारतम्ये ऽपि न मार्गभेद इति, तदनुकूलसर्वज्ञभक्तावप्यविवाद एव तेषाम् / उक्तं च प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् / भवभोगविरफ्तास्ते भवातीवार्थयायिनः // एक एव तु मार्गोऽपि तेषां शमपरायणः / अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् / / संसारातीततत्त्वे तु परं निर्वाणसंज्ञितम् / तथैकमेव नियमाच्छब्दभेदेऽपि तत्वतः / / सदाशिवः परं वा सिद्धात्मा तथा नेति शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः॥ सल्लक्षणाविसंवादानिराबाधमनामयम् / निष्क्रिय च परं तवं यतो जन्माचपोमवः / / For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy