SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 . त्वमुक्तं तत्स्वाभाविकम् , न तु प्रतिषेवणाकृतमिति बोध्यम् / किश्च तस्य प्रायश्चित्तं स्यात् तदा पुनर्वतारोपणादि स्याद्, आकुटया पञ्चेन्द्रियघाते मूलादिमहाप्रायश्चित्ताभिधानाद् / उक्तं च-" तस्य हस्तशताबहिर्गमन इव निरतिचारताभिव्यजक सूक्ष्माश्रवविशोधकमालोचनामायश्चित्तमेव / तथा च द्वितीयखण्डे बृहत्कल्पभाष्यत्तिग्रन्थ:-" 'आयरिए गच्छम्मि य कुलगणसंघे अ चेइअविणासे। आलोइअपडिकंतो सुद्धो जे णिज्जरा विउला // " षष्ठीसप्तम्योरथ प्रत्यभेदः / आचार्यस्य वा गच्छस्य वा कुलस्य वा गणस्य वा सङ्घस्य वा चैत्यस्य वा विनाशे उपस्थिते सति सहस्रयोधिप्रभृतिना स्ववीर्यमहापयता तथा पराक्रमणीणं (णीयं) यथा तेषामाचार्यादीनां विनाशो नोपजायते, स च तथा पराक्रममाणो यद्यपराधमापन्नस्तथाऽप्यालोचितप्रतिक्रान्तः शुद्ध:-गुरुसमक्षमालोच्य मिथ्यादुष्कृतप्रदानमात्रेणैवासौ शुद्ध इति भावः / कुतः ? इत्याह-यद्यस्माकारणाद्विपुला महती निर्जरा कर्मक्षयलक्षणा तस्य भवति, पुष्टालम्बनमवगम्य भगवदाज्ञया प्रवर्त्तमानत्वादिति // " इत्थं च सर्वत्र वस्तुस्वरूपावबोधक एवापवादोपदेशो नतु विधिमुख इति यत्किञ्चिदेव, बहूनां छेदग्रन्थस्थापवादसूत्राणां विधिमुखेन स्पष्टमुपलम्भात् / तथा आचाराङ्गेऽपि " २से से तत्थ पयलमाणे वा पवडमाणे वा रुक्खाणि वा गुच्छाणि वा लयाओ वा वल्लीओ वा तणाणि वा तणग्गहणाणि वा हरिआणि वा अवलंबिया उत्तरिज्जा, से तत्थ पाडिपहिआ उवागच्छंति ते पाणी जाएज्जा, तओ संजयामेव अवलंबिय 2 उत्तरेज्जा, तओ संजयामेव गामाणुगामं दूइजिज्जा।” इत्यत्र गच्छगतस्य साधोवल्याधालम्बनस्य विधिमुखेनैवोपदेशात् / न च " से भिक्खू वा 2 गामाणुगाम दुइज्जमाणे अंतरा से वप्पाणि वा फलिहाणि वा पागारागि वा तोरणाणि वा . : 1 आचार्य गच्छे च कुलगणसंघे च चैत्यविनाशे / आलोचितप्रतिक्रान्तः शुद्धो यनिर्जरा विपुला // 2 अथ स तत्र प्रचलन् प्रपतन् वृक्षान् गुच्छान् वा लता वा वल्ली तुणानि वा तृणग्रहणानि वा हरितानि वा अवलम्ब्य उत्तरेत्, अथ तत्र प्रातिपथिका उपागच्छन्ति तेषां पाणिं याचेत, ततः संयत एव अवलम्ब्य 2. उत्तरेत, ततः संयत एवं ग्रामानुग्रामं गच्छेत / / 3. अथ भिक्षुर्वा भिक्षुकीर्वा प्रामानु ग्राम गच्छन् अन्तरा तस्य वप्रा वा परिखा वा प्राकारा वा तोरणानि वा अर्गला वा अर्गलपाशका वा सति पराक्रमे संयत एव पराक्रमेत, नो ऋजुकं गच्छेत् / केवली ब्रूयाद् आदानमेतत् // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy