________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योगानामशुभत्वनिवारणार्थमेव, तेषां स्वरूपयोम्यतयैव यथोक्तजीवघातहेतुत्वाद्, पुनः फलोपहितयोग्यतयापि, कारणानामभावात् / तथाऽशुभत्वं प्रमत्तयोगानामेव तदभिव्यकं तु प्रमत्तयोगानां फलवच्छुभाशुभत्वाभ्यां वैविध्याभिधायकमागम वचनमेव / तथाहि-"'तत्थ णं जे ते पमत्तसंजया ते णं मुहं जोग पडुच णो आयारंभा, जाव अणारंभा / अमुहं जोगं पडुच्च आयारंभावि; जाव णो अणारंभत्ति / " अत्रापि प्रमत्तसंयतानां सामान्यतः प्रमत्ततासिद्धयर्थं तदीययोगानां स्व. रूपयोग्यतयाऽऽभोगपूर्वकजीवघातहेतुत्वं वक्तव्यम्, कादाचित्काशुभयोगजन्यारम्भकत्वसिद्धयर्थ चाभोगोपिघात्यजीवविषयत्वेन व्यक्तो वक्तव्यः, तद्वत एव कस्यचित्पमत्तस्य सुमङ्गलसाधोरिवापवादावस्थां प्राप्तस्यात्माघारम्भकत्वात् , संयतत्वं च तस्य तदानीमपवादपदोपाधिकविरतिपरिणामस्यानपायाद्, न चैवमप्रमत्तसंयतस्य भवति, तस्यापवादपदाधिकारित्वाभावेनाभोगपूर्वकजीवघातहेतूनां योगानामभावात् / यस्त्वपवादप्रतिषेवणाराहित्यावस्थायामप्यप्रमत्तानामिव सद्भूतजीवघात: स चानाभोगजन्य एव, तदानीमनाभोगस्यापि तस्य विद्यमानत्वाद्, अत एव एवाप्रमत्तानामिव योगानां शुभत्वेन नात्माघारम्भकत्वमिति / फलोपहितयोग्यतास्वरूपयोग्यतयोश्वायं भेदः-यस्य यदन्तर्गतत्वेन विवक्षितकार्य प्रति कारणता तस्य तदन्तर्गतत्वेनैव फलवत्तया फलोपहितयोग्यता, अन्यथा तु स्वरूपयोग्यता, सत्यपि तस्य कारणत्वे तदितरसकलकारणराहित्येन विवक्षितकार्याजनकत्वात् : परं स्वरूपयोग्यता एकस्मिन्नपि कारणे सजातीयविजातीयानेकशुभाशुभकार्याणां नानाप्रकारा आधाराधेयभावसम्बन्धेन सह जाताः कारणसमानकालीनाः, फलोपहितयोग्यतास्तु स्वरूपयोग्यताजनिता अपि कादाचित्का एव, तदितरसकलकारणसाहित्यस्य कादाचित्कत्वात् , यच्च कादाचित्कं तत्केषाञ्चित्कारणानां कदाचिदपि न भवत्येव, तेन फलोपहितयोग्यताः केषाश्चित्कारणानां सम्भवन्योऽपि कादाचित्क्य एव मन्तव्याः; अत एव केवलिनां योगा अशुभकार्यमात्र प्रति सर्वकाल स्वरूपयोग्यतामाज एव भवन्ति, न पुनः कदाचिदपि फलोपहितयोग्यताभाजोऽपि, अशुभकार्यमात्रस्य कारणानां ज्ञानावरणोदयादिधातिकर्मणामभावेन तदितरसकलकारणसाहित्याभावात् / शुभकार्याणां तु यथासम्भव कदाचित्फलोपहितयोग्यतापि स्यात्, तथैव तदितरसकलकारणसाहित्यस्य स 1 तत्र येसे प्रमत्तसंयतास्ते शुभ योगं प्रतीत्य नो भात्मारम्भाः, यावदनारम्भाः 1 अशुभ योगं प्रतीत्य आत्मारम्भा अपि यावद् नो मारम्भा इति. For Private and Personal Use Only