SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi धन्यशाली महाकाव्यम् 5 सर्गः १ ॥७ ॥ प्रसाध्य पायस माज्यं, स्थाले चिक्षेप तस्य सा । उपरिष्टाद घृतं खण्डं, गृहमध्येऽविशत्ततः ॥७॥ अस्मिंश्चावसरे तत्र, गुप्तित्रयपवित्रितः। ज्ञानदर्शनचारित्र-रत्नत्रितयभूषितः ।। ७२ ॥ ईर्यासमितिसम्पन्नो, मासक्षपणपारणः (णे)। नाम्नापि सुस्थितः साधु-गजगाम क्षमानिधिः ।७३।युग्म तं तथा मुनिमालोक्य. यालो रोमाश्चमुद्रहन् । विकसबदनाम्भोज-चिन्तयामास हृद्यसौ ॥ ७४ ।। अहो वृष्टिरनभ्रेयं, मरौ सकमलं सरः । आययौ यदयं साधु-मम दृष्टिपथेऽधुना ।। ७५ ।। तन्मन्ये मम भाग्यानि, जागरुकाणि साम्प्रतं । किमपुण्यवतो गेहे, कल्पवृक्षः प्ररोहति ? ।। ७६ ॥ यतः-सत्पात्रं महती श्रद्धा, काले देयं यथोचितं । धर्मसाधनसामग्री, धन्यस्येयं प्रजायते ॥ ७७ ॥ पायसं श्रेयसे स्वस्य, तस्मादस्मै महात्मने । प्रयच्छामीदमेवाह-मिति संचिन्तयंस्ततः ॥ ७८ ॥ उत्तस्थौ स्थालमादाय, मुदाऽसावब्रवीदिदम् । भगवन्ननुगृह्णीष्व, पायसग्रहणेन माम् ॥७९॥ ततोऽसौ सुस्थितः साधु-रेषणागतमानसः । द्रव्यादिपूपयुक्तात्मा, पतंदग्रहमधारयत् ॥ ८ ॥ कृतार्थोऽस्मीति चित्तेन, भावनां भावयन्नसौ । सत्पात्राय ददौ तस्मै, सम्पूर्णमपि पायसम् ।। ८१ ॥ नत्वा तेन विमृष्टोऽसौ, लोल्यादिपरिवर्जितः । स्वस्थानं सुस्थितो गत्वा, बुभुजे भोजनं मुनिः ।।८२॥ निर्निदानेन दानेन, तेन पुण्यानुवन्धिना । चमत्कारकरान् भोगा-नर्जयामास बालकः ॥ ८ ॥ १ पात्रम् For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy