SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पन्यशाली महाकाव्यम् सर्गः४ ॥ ६२॥ ॥ ६२॥ सरोराजीमिव कापि, सचक्रां तुझ्वेदिकाम् । श्रेणिकः सदगुणश्रेणिः, स्यन्दनालीमवैक्षत ॥ ८८ ॥ चमत्कारकरी लक्ष्मी, पश्यन्नेवं नरेश्वरः । अनेकमणिसोपाना-मारुरोहाद्यभूमिकाम् ॥ ८९ ॥ तत्रागण्यानि पण्यानि, बहुमूल्यान्यनेकधा । अनिन्दितानि विद्यन्ते, स्थाने स्थाने समन्ततः ॥१०॥ चारूमुकवृन्दानि, नालिकेरीफलानि च । कुत्रचिद्गणयन्त्युच्चै-स्वरितं त्वरितं नराः ॥९१ ॥ आरोप्यते तुलायां च, धरिमद्रव्यसञ्चयः । कुङ्कुमादि परिच्छेत्तुं, विशुध्यर्थमिव क्वचित् ।। ९२ ।। कृष्णजीरकधान्याक-मरिचाद्या उपस्कराः । धान्यानि च प्रमीयन्ते, कुत्रचिणिगादिभिः ॥ १३ ॥ अनेकभायः कापि, लम्बिताहारयष्टयः । निर्मला व्योमगङ्गायाः, प्रवाहाः इव रेजिरे ॥ १४ ॥ अत्यन्तममृणीकृत्य, घर्ष घर्ष कचिन्नरैः । निर्मलीकृत्य विध्यन्ते, प्रवालशकलान्यलम् ।। १५ ।। वैडूर्यादीनि रत्नानि, कापि साराणि साधुभिः । भव्यानामिव चेतांसि, क्रियन्तेऽपमलान्यहो ॥२६॥ अशेषदोषनिर्मुक्तं, जातरूपं कषादिभिः । परीक्ष्यादीयते कापि, सद्धर्म इव पण्डितैः ॥२७॥ अभातां क्वचिनास्तीणे, कस्तूरी हिमवालुके । निरस्यन्त्यावघं नृणां, सूर्यजनुसुते इव ॥१८॥ क्वचित्पांशुकादीनि, पञ्चवर्णानि सादरम् । सहस्त्राणि परीक्ष्यन्ते, वणिक्पुत्रैरनेकधा ॥१९॥ १ क्रमुकाणि पूगीफलानि. २ अतिमृदृकृत्य. ३ मलरहितानि. ४ सुवर्णम्. ५ कस्तूरी कृष्णवर्णा, हिम च श्वतं तयोर्वालुके. | ६ सूर्यसुता यमुनानदी कृष्णजला, जनुसुता गहानदी श्वेतजला.... For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy