SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ४१ ॥ www.kobatirth.org तामेवं कन्यां धात्री, विलोक्याकुलमानसा । तत्र चैकान्तमाधाया- पृच्छन्मधुरया गिरा ॥५४॥ कोऽपि किं बाधते व्याधि-र्वरसेऽतुच्छस्तवाधुना । किं वान्यत्कारणं किञ्चि धेनैवं पुत्रि विद्यसे । ५५ । अकस्मादेव ते कस्मादवस्थाऽभवदीदृशी । ममात्मनिर्विशेषायाः, पुरस्ताद् ब्रूहि बालिके ।। ५६ ।। सम्पादयिष्यामि तवाभीष्टं क्षणादपि । अविज्ञातरुजः कर्त्तु, पार्यते न प्रतिकियाम् ॥ ५७ ॥ सोमश्रीस्तामुवाचैव, विहस्याकर्णयाम्बिके । न व्याधिर्वाधते कोऽपि हेतुर्नान्योऽस्ति केवलम् ||५८|| माद्य पुरतो धन्याभिधो धीमान् गुणी युवा । अतिथिः कुसुमावल्या, वर्णितः खगृहागतः ॥५९॥ तद्गुणश्रवणाभास्मन्ननुरागोऽम्य मेऽभवत् । तदप्राप्तावसुस्याहं त्वं प्रमाणमतः परम् ॥ ६० ॥ ततः सा प्रत्युवाचैवं, त्वं खेदं पुत्रि मा कृथाः । यतिष्येऽहं तथा शीघ्रं यथेष्टं ते भविष्यति ॥ ६१ ॥ इत्युदित्वा च धारिण्यै, सा तदाकृतमब्रवीत् । तत्सर्व्वं धारिणी देवी, श्रेणिकाय व्यजिज्ञपत् ॥ ६२ ॥ ततः श्रीश्रणिको राजा, कौतुकौत्तानमानसः । धन्यमाजूहवत्प्रीत्यो- यानपालस्य मन्दिरात् ।। ६३ ।। धन्यस्यागच्छतो रूप- मालोक्याचिन्तयन्नृपः । किं जयंन्तोऽयमेतीन्द्र- पार्श्वात्केनापि हेतुना ॥ ६४ ॥ किंवा नागकुमारोऽय - मायाति पृथिवीतलात् । नित्यान्धकारसम्पूर्णे, तत्र स्थातुमिवाक्षमः ॥ ६५ ॥ धन्योऽप्यभ्यर्णमागत्व, प्राञ्जलिः प्राणमन्नृपं । महाकुलीना विनया— लङ्कारा हि निसर्गतः ॥ ६६ ॥ १ इन्द्रपुत्रः. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ३ ॥ ४१ ॥
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy