SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasesgarseri Gyanmandie धन्यशाली भद्र महाकाव्यम् hel सर्गः ३ १५॥ ३७॥ . अथ तृतीयः सर्गः प्रारभ्यते ॥ अथेभ्यश्रेष्ठिसूर्धन्यः, कृषीवलमदोऽवदत् । पुरं राजगृहं गन्तु-मिच्छाम्यस्मि महामते ॥१॥ ततः कृषीवलेनापि, सतर्ण जगृहे धनुः। धन्येनापि निजं खड्ग-रत्रमुल्बणमाददे ॥२॥ तेनानुगम्यमानोऽसौ, देशसन्धिमुपागतः । धन्यो निवर्तयामास, कर्षकं स्वगृहं प्रति ॥३॥ चचाल स्वयमेकाकी, निर्भयः स महामनाः । प्राप कुसुमपालस्या-रामं राजगृहाहहिः ॥ ४ ॥ पावत्तत्र क्षणं सोऽस्थात्तावत्तदनुभावतः । बभूवोपवनं रम्यं, दलपुष्पफलादिभिः ॥५॥ आगात् कुसुमपालाख्य-स्तत्रैवोद्यानपालकः । ददर्श यावदाराम-मकस्मादतिवन्धुरम् ॥ ६॥ ततोऽसौ विस्मयापन्न-श्चिन्तयामास चेतसि । आश्चर्य यदिहाकस्मा-दभूदारामरम्यता ॥७॥ ततश्चखान सक्षोणी, स्थानकानि कियन्त्यपि । यावद् दूणां रोपणाया-पश्यत्तावन्महानिधीन॥८॥ ततोऽचिन्तयदेवं स, पूर्वमेवाखनं क्षितिम् । निध्यालोकः परं नाभू-त्तत्कि कारणमित्यहो ॥९॥ एवं चिन्तयतस्तस्य, धन्यः श्रेष्ठिसुतः पुरः । अपतच्चक्षुषोर्मार्गे, पुण्यराशिरिवागवान् ॥१०॥ उद्यानपालको धन्य-मानन्दस्यन्दिनं दृशोः। विलोक्य हृदये प्रीत-श्चिन्तयामासिवानिति ॥११॥ अयं गुणनिधिः कश्चि-दित्याऽऽकृत्याऽवसीयते । यत्राकृतिर्गुणास्तत्र, वसन्तीति श्रुतिर्यतः ॥१२॥ १अहम् For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy