SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi धन्यशाली महाकाव्यम् सर्ग:१ ॥१६॥ तत्रापश्यदमूल्यानि, रत्नानि प्रवराणि सा । उद्योतमन्धकारेऽपि सुतरां यानि कुर्वते ॥ ७९ ॥ गृहीत्वा तानि सर्वाणि, कौतुकेनोच्चखान सा । पर्यङ्ककीलिकाः सर्वाः, किं किं लोभो न कारयेत् ॥ ८॥ सर्वत्रानयरत्नानि दृष्ट्वा चेतस्यचिन्तयत् । महाधनस्य कस्यापि, पर्योऽयमहो ध्रुवम् ॥ ८१ ॥ परलोकमनुप्राप्ते. तस्मिंस्तत्स्वजनैरयम् । तत्स्वरूपमजानानैः ब्राह्मणाय समर्पितः ।। ८२॥ द्विजेनाप्यनभिज्ञेन, विक्रीतो रूपकैरपि । पार्श्वे मदीयपुत्रस्य, धन्यस्यास्य महामतेः ॥ ८३ ॥ तन्नुन मन्दभाग्येभ्यो, याति श्रीविपुलापि हि । पूर्वोपार्जितपुण्याना-मायाति श्रीः स्वयम्वरा ॥ ८४ ॥ तदयं मम पुत्रोऽपि, धन्यो भाग्यनिधिधुवम् । सम्पदः स्वयमायान्ति, यस्य क्लेशं विनापि हि ॥ ५ ॥ यामिनीयामयुग्मेन, युक्तं सकलवासरम् । व्यतीयायान्यपुत्राणां, कुर्वतां क्रयविक्रयान् ॥ ८६ ।। न कपर्दकमानं ते, लेभिरे केवलं क्षयः । मूलस्याप्यभवत्पुण्या-पुण्ययोरन्तरं महत् ॥ ८७ ॥ पितृभ्यामथ ते प्रोक्ताः, कुलाभ्युदयकारकः । वत्सा! धन्योऽयमस्माकं, पुण्यैरेवोदपद्यत ।। ८८ ॥ तदत्र भवतां कर्नु, वैमनस्यं न युज्यते । श्रीखण्डतरुरेकोऽपि, वनं सुरभयत्यलम् ।। ८९ ॥ इत्येवमपि ते प्रोक्ता, नैव मुश्चन्ति मत्सरम् । प्रायेण विरला भूमो, गुणिनां गुणवेदिनः ॥९॥ यतः-नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी । गुणी गुणप्रियश्चेति, विरलः सरलाशयः॥९॥ धनचन्द्रप्रिया ज्ञात्वा, धन्यं प्रति समत्सरान् । जिघांसून् सकलान् भ्रातृ-श्चिन्तयामास चेतसि ॥१२॥ For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy