SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mah श्रीदे० चैत्य० श्री धर्म० संघाचारविधौ ॥ ७७ ॥ Aradhana Kendra www.kobatirth.org विदितभूरिगुणः ||५|| तत्पादपद्मभृङ्गा निस्संगाचङ्गतुङ्ग संवेगाः । संजनितशुद्धबोधा जगति जगच्चन्द्रसूरिवराः || ६ || तेषामुभौ विनेयौ श्रीमान् देवेन्द्रसूरिरित्याद्यः । श्रीविजयचन्द्रसूरिद्वितीयकोऽद्वैत कीर्तिभरः | ७|| स्वान्ययोपकाराय, श्रीमद्देवेन्द्रसूरिणा । धर्मरत्नस्य टीकेयं, सुखबोधा विनिर्ममे ||८|| प्रथमां प्रतिमप्रतिमं विभ्राणो गुरुजनेषु भक्तिभरम् । विद्वान् विद्यानंदः सानन्दमना लिलेखास्याः | |||९|| श्री हेमकलशवाचकपण्डितवरधर्म कीर्तिमुख्य बुधैः । स्वपरसमयैककुशलैस्तदैव संशोधिता चेयम् ॥ १०॥ इति । यतोऽत्र न वाबदीति यद् श्रीजगचन्द्रसूरिवराणां चैत्रावालकगच्छीय श्रीदेवभद्रसूरीणां पार्श्वे यथोपसंपग्रहस्तथा श्रीमतां देवेन्द्रसूरीणां किंचश्रीमद्भिर्यदा कर्मग्रन्थवृत्तिः प्रणीता तदा जातैव तपोगच्छोत्पत्तिः, स्पष्टं चैतदुपरिष्टान्निर्दिष्टतत्पाठात्, किंच - श्रीकर्मग्रन्थवृत्तौ श्रीश्राद्धदिनकृत्यवृत्तिं स्पष्टमुल्लिख्य काव्यं तत्रत्यं क्ष्माभृद्रंककयोर्मनीषिजडयो' रित्येतत् उल्लिखितं, ततः स्पष्टतरमेतस्यास्तस्याः पश्चाद्भावित्वं, किंच - धर्मरत्नकर्मग्रन्थवृत्तिकरणकाले श्रीधर्मकीर्त्तिपंडितानां साहाय्यं यथा दर्शितं न तथा श्राद्धकृत्यवृत्तौ तथा च श्राद्धदिनकृत्यधर्मरत्नकर्मग्रन्थवृत्तीनां क्रमेण कृतिः, एवं च कर्मग्रन्थवृत्तावेव तपोगणाचार्यत्वाभिधानात् श्रीजगञ्चन्द्रसूरिभ्यः तपोगणोद्भवस्तदानीं निस्संदिग्धः, अन्यच्च - श्रीश्राद्धदिनकृत्यवृत्तिप्रशस्तौ श्रीविद्यानंदोल्लेखात् कर्मग्रन्थधर्मरत्नवृत्योः श्रीविद्यानन्दधर्मकीर्त्य भयोल्लेखात् श्राद्धदिनकृत्यवृत्तेः पूर्वतरभाविता, आद्यवृच्योः श्रीहेमकलशस्योल्लेखेऽपि अन्त्यायां तदनुल्लेखोऽपि क्रमवत्तां द्योतयति, एवं श्रीमद्देवेन्द्राणां तपागच्छीयत्वे सिद्धेऽपि तपोगणोद्भवस्य त्रयोदशशताब्दीपूर्तेरर्वाग्भावे न संदेहो विधेयः, यतः स्तम्भतीर्थीय श्री शान्तिनाथभांडागारीयपुस्तकेषु स्पष्ट एव तपोगणस्योल्लेखः, दृश्यंतां प्रशस्तिसंग्रहगतास्ताः प्रशस्तयः श्रीष्टिय (तृतीयपर्व) चरित्रं पृष्ट ४७ नं. ५७ - १२९५ वर्षे आश्विनवदि २ ख अद्येह श्रीबीजापुरपत्तते समस्तराजा For Private And Personal Acharya Shri Kailash Gyanmandir प्रस्तावना ॥ ७७ ॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy