SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri श्रीदे० चैत्य० श्रीधर्म० संघा चारविधौ ॥३२५॥ ain Aradhana Kendra २२ सर्वभावान् पश्यतीति निरुक्तात्पार्श्वः, गर्भस्थेऽस्मिन् माता शयनीयस्था निशि तमसि सर्पमपश्यदिति पार्श्वः, उत्पत्तेरारभ्य ज्ञानादिभिरभिवर्द्धत इति वर्द्धमानः, गर्भस्थेऽस्मिन् ज्ञातकुलं धनधान्यादिमिर्वृद्धिं गतमिति वर्द्धमानः २४, एवं कीर्त्तयित्वा चित्तशुद्धये प्रणिधानमाह-'एव' मित्यादि, एवं पूर्वोक्तप्रकारेण मयाऽभिष्टुता - आभिमुख्यतः स्तुताः सादरमितिभावः, किंविशिष्टाः :विधूतरजोमलाः, बध्यमानं बद्धं ऐर्यापथं वा कर्म रजः, पूर्वबद्धं निकाचितं सांपरायिकं वा मलं, ते विधूते- अपनीते यैस्ते विधूतरजोमलाः, अत एव प्रक्षीणजरामरणाः, कारणभावात्, चतुर्विंशतिरपि जिनवराः, अपिशब्दः प्राग्वत्, जिनवराः - श्रुतादिजिनेभ्यः वराः - प्रकृष्टास्तीर्थकरा मे मम प्रसीदंतु-प्रसादपरा भवंतु । यद्यप्येते वीतरागादित्वान्न प्रसीदंति तथापि तानर्चित्यमाहात्म्योपेतान् चिंतामण्यादीनिव मनः शुद्ध्याऽऽराधयन्नभीष्टफलमवाप्रोति, तथा 'कित्तियेत्यादि, कीर्त्तिताः खनामभिः प्रोक्ताः वंदिता - वाग्मनोभिः स्तुताः महिताः - पुष्पादिभिः पूजिता, महयत्ति वा पाठः, अत्र मयका-मया, क एते इत्याह-य इति प्रत्यक्षा एते ऋषभाद्या लोकस्य प्राणिवर्गस्य कर्ममलाभावेनोत्तमाः प्रकृष्टा उच्छिनतमसो वा सिद्धाः - निष्ठितार्थाः अरोगस्य भाव आरोग्यंसिद्धत्वं तस्मै बोधिलाभः–अर्हद्धर्मावाप्तिः आरोग्यबोधिलाभस्तं स चानिदानो मोक्षायेत्यतस्तदर्थमाह - 'समाघिवरं, समाधिःपरमखास्थ्यरूपं भावसमाधिमित्यर्थः सोऽप्यनेकधा तारतम्येनात उत्तमं सर्वोत्कृष्टं ददतु, भावसमाधिगुणाविर्भावकं जिनदताख्यानकं, तथाहि छद्मस्थ एकदा वीरो, वैशाल्यामाययौ बहिः । तस्थौ प्रतिमया देवकुले काले घनागमे ॥ १ ॥ तत्रासीत् परमश्राद्धो, जिनदत्तामिधः सुधीः । च्युतः श्रेष्ठिपदाञ्जीर्णश्रेष्ठत्वेन स विश्रुतः ||२|| वीरं संवीक्ष्य वंदित्वा, कृत्वोपास्तिं चिराद् गृहम् । आगा www.kobatirth.org For Private And Personal Acharya Shri Kailuri Gyanmandir चतुर्विंशतिस्तवः ॥ ३२५॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy