SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri M www.kcbatirth.org n Gyanmandie ईर्यापथि कीव्याख्या श्रीदे चैत्यश्रीधर्म संघाचारविधी ॥२६९॥ a in Aradhana Kendra Acharya Shri Kai लगिता ईषत् पिष्टा वा अन्योऽन्यगात्रादिभिर्वा लिङ्गनकादिवत् मीलिताः, संघातिताः घृतेलिकादिवत् पिण्डीकृताः, लोलावटीकृता | इत्यर्थः निरुद्धाद्यर्थ स्वमल्लादिवद् वा मिथो गात्रैर्मीलिताः, संघट्टिता मनाक् पीडिताः, यदागमः-"जरजजरो य थेरो तरुणाणं | जमलपाणिमुच्छहओ। जारिस वेयण देहे एगिदियघट्टणे तय ॥१॥" परितापिताः सर्वाङ्गं पीडिताः कृताल्पपीडावा, क्लमिताः कृतगाढपीडा ग्लानि प्रापिता,जीवितावशेषीकृता यावत् अवद्राविताः,उड्डाविता वा-उत्त्रासिता भयात् केचित् उत्कर्णीभूय स्थिताः केचिच्च पलायन्ते स्म केचिच्च पिण्डीकाचटनादिना मुछिता इव निश्चेष्टाः संजाताः इत्यर्थः, स्थानात् स्थानं स्थानादपस्थानं वा संक्रामिता वा-उत्पत्तिस्थित्यादिना ईप्सितत्वेन स्वस्थानात् शुभस्थानाद्वा अनुत्पत्यादिना अनाश्रितत्वेन परस्थानं सञ्चारिता-नीताः स्थानभ्रष्टा कृताः, रोलविया भोलविया इत्येकोऽर्थः 'जीवितात् व्यपरोपिताः' प्राणेभ्य उत्खनिता भ्रंशिता मारिता इत्यर्थः, एषा विराधना ७, ततः किमित्याह-'तस्स मिच्छामिदुकडं' पूर्व यस्य विराधनाप्रकारस्य आलोचना कृता तस्याधुना मिच्छामिदुक्कडं, | देमि इति शेषः,तस्स पडिकमामि इत्युक्तं भवति, आह च-"वोसिरिय पडिकमइ तस्स मिच्छुकडं देइ" यद्वा तस्य-उक्तार्थस्य | विराधनाप्रकारस्य मिथ्यावशात् मूढत्वेन यन्मे दुष्कृतं-दुष्टु अयतनया विधानं तत्पुनरावृत्या दुष्कृतं-तदुत्थं पापं मिथ्या-विफलं भवत्वित्यर्थः, एषा विराधनाप्रकारसंपत् । इयं च अस्या गाथातः एवं व्याख्याता-"जीवा विराहिया पंचमी उ पंचिंदिया भवे छट्ठी । मिच्छामि दुक्कडं सत्तमीऽद्यमी ठामि उस्सग्गं ॥१॥" अन्ये तु ववरोविया इत्यन्तां सप्तमी मिच्छामिदुक्कडमित्यष्टमीमाहुः, भवति च सम्यग् मिथ्यादुष्कृतकर्तुर्विक्रमकुमारस्येवाशुभकर्मक्षयात् समीहितफलावाप्तिः, तथा चागमे-"जया ऊण किचि अन्नाणमोहपमाइयाइदोसेणं सहसा एगिदियाईणं संघद्याइ कयं हविजा तया य पच्छा हा हा हा दुठुकयमम्हेहि घणराग MINSAR | ॥२६९।। For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy