________________
S
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
b
uri Gyanmandit
बौदे
नमस्कारे वर्णादि
चैत्यश्री
धर्म-संघा
पारविधी ॥२१०॥
| पदमंताव विणओवहाणं कायई"ति,अलं विस्तरेण,संप्रति भाष्यगाथा व्याख्यायते-वर्णा-अक्षराणि अष्टषष्टिः नमस्कारे-पंचपरमेष्ठि-1 महामंत्ररूपे भवंतीति शेषः,उक्तं च नमस्कारपंजिकासिद्धचक्रादौ-"पंचपयाणं पणतीस वण्ण चूलाइवण्ण तिचीसं । एवं इमो | समप्पइ फुडमक्खरअट्ठसठ्ठीए॥१॥" तथा अष्टप्रकाश्यां-"आग्रेय्यादिविदिग्व्यवस्थितेषु दलेषु पादचतुष्कं 'एसोपंचनमुकारो, सहपावप्पणासणो । मंगलाणं च सवेसि,पदम हवा मंगलं ॥१॥ति ध्यायेत् , तथा नव पदानि विवक्षितावधियुक्तानिनमोरिहंताणमित्यादीनि, न तु स्त्यायंतानि, मणितं च-"सत्त पण सत्त सत्त य नव अट्ट य अट्ठ अट्ट नव इंति । इय पय अक्खरसंखा अस्स हु पूरेइ अडसट्ठी ॥१॥" तथाऽष्टौ संपदो-विश्रामस्थानानि,न चैवं श्लोकच्छंदोभंग इति वाच्यं,छंदोऽन्तररूपत्वादस्य,उक्तं च छंदःशास्त्रे-"विषमाक्षरपादं वा पादैरसमं दशधर्मवत् यच्छन्दो नोक्तमत्र गाथेति तत्सरिमिः प्रोक्ता" एवंविधाथ त्रयस्त्रिंशदक्षरप्रमाणा अनेकश आगमे दृश्यन्ते-जहा दुमस्स पुप्फेसु, भमरो आवियह रसं' तथा 'अहं च भोगरायस्स, तं चसि अंधगरहिणों' इत्यादि, तथा अष्टौ संपदो-महापदापरनामानि विश्रामस्थानानि, उपधानविधावष्टाध्ययनात्मकतया प्रत्यध्ययनायेकैकाचामाम्लकरणेनाष्टानामेवाचामाम्लाना भणनाद , शेषविशेषस्तु प्रागुक्तसंपवारन्याख्यानुसारतोबोध्यः,अथ कथं नवसु पदेषु अष्ट संपद इत्याह-'तत्यति तास्वासु संपत्सु मध्ये क्रमेण सप्त संपदः पदैः पूर्वोक्तस्वरूपैस्तुल्या:-समाना,अष्टमी पुनः संपद् सप्त| दशाक्षरप्रमाणा पर्यतवर्तिपदद्वयात्मिकावयवा 'मंगलाणं च सबेसिं, पदमं हवा मंगलं', यदुक्तं चैत्यवंदनाभाष्यप्रवचनसारोद्धारादिषु 'पंचपरमिट्टिमंते पए पए सत्त संपया कमसो। पजंत सत्तरक्खरपरिमाणा अडमी मणिया ॥१॥" तथा एवं वा चतुर्थपदस्य पाठः 'नवक्खर अदमि दुपय छट्ठी' अष्टमी संपत् 'पढमं हवइ मंगल मिति नवाथरप्रमाणा बेया, षष्ठी पुनः 'एसो
॥२१॥
For Private And Personal