________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रथमोऽध्यायः
[ शिलास्थितिक्रमेण प्रतिमाशिरोविधानम् ]
प्राकू पश्चादक्षिणे सौम्ये स्थिता भूमौ तु या शिला । प्रतिमायाः शिरस्तस्याः कुर्यात् पश्चिमदक्षिणे ॥ ६ ॥
स्त्रिया पुंसा च भूपीठे कृते स्याद्राष्ट्रनाशनम् ।
एवं विज्ञाय तद्योग्यामानयेदम्बरावृताम् ॥' ( १।२८-२९ )
ध्वनि छेदसमयोत्पन्न इति ज्ञेयम् । तथा च शिल्परत्ने
काश्यपे-
Acharya Shri Kailassagarsuri Gyanmandir
छे...
पूर्वोत्तरशिरोयुक्ता घण्टानादस्फुलिङ्गवत् । ॥ अ० १४ । १६-१७ श्लो.) ६ । प्राक् पश्चादिति । या शिला भूमौ प्राक् पश्चात् पूर्वपश्चिमायतत्वेन दक्षिणे सौम्ये दक्षिणोत्तरायतत्वेन च स्थिता शायितेत्यर्थः तस्यास्तन्निर्मिताया इत्यर्थः, प्रतिमायाः शिरः पश्चिमदक्षिणे पश्रिमे दक्षिणे च कुर्यात् । प्राक्पश्चादवस्थितायाः शिलाया पश्चिमांशे दक्षिणोत्तरावस्थितायाः शिलाया दक्षिणांशे शिरः कुर्यादित्यर्थः । यच्च मयमते—
“शिलामूलमवाक् प्रत्यगुदग्रं प्रागुददिशि " ( अ० ३३, १८ लोः ) इति
प्रागग्रां चोदगग्रां वा शिलां संग्राह्य देशिकः ।
प्रागग्रे पश्चिमं मूलमुद्गग्रन्तु दक्षिणे ॥ ( अ० ४९,६१ श्लो, )
इति, पूर्वोद्धृतशिल्परत्नपूर्वभागवचने च ( अः १४, १६ श्लो० ) प्रागुदगग्रत्वमभिहितम्, तत्तु शिलाया ऊर्द्धाधोज्ञानार्थं न तु प्रतिमायाः शिरः पादादिज्ञानार्थम् । एतच्च नैऋ तैशानकोणायताया वह्निवाय्वायतायाश्च शिलाया व्यावर्त्तनार्थम् । मयमते तु कोणायताया अपि शिलाया मूलाग्रमाह ।
तथा च
“नैऋत्यैशानदेशाग्रा वह्नाग्रा वह्निवायुगा” (अ: ३३, १९ लो०)
इति । अस्यायमर्थः – नैऋत्यैशानदेशाग्रा नैर्ऋ त्येशानायतनत्वेनावस्थिता शिला ऐशानदेशामा ऐशान्यां दिशि तस्याः शिर इति ऐशानपदस्य द्विरावृत्त्याऽन्वयः कार्यः ।
शिलायाः शिरः पादादिस्थानकथनञ्च प्रतिमायाः शिरः पादादिज्ञानार्थम् । तत्र च ग्रन्थकृतोक्तः समाधिः
"प्रतिमायाः शिरस्तस्याः कुर्यात् पश्चिमदक्षिणे”
इति, यच्च मयमते कोणायताया अपि शिलायाः प्रतिमार्थं ग्राह्यता प्रतिपादिता 'नैऋत्यैशानदेशाग्रा' इत्यादिवचनेन, तच्छिल्परत्नवचनविरोधाच्चिन्त्यमेव शिल्परत्त्रपूर्वभागे दिगायतायाः शिलाया ग्राह्यत्वं कोणायतायाश्र वर्ज्यत्वमाह ।
;
तथा च
For Private And Personal Use Only