________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः षण्ढोपलेन कर्तव्यं (व्ये?) ब्रह्मकूर्मशि(ले त ?) लैस्तथा। प्रासादनल(तल ?)कुण्डादि कर्म कुर्याद्विचक्षणः ॥५॥
छन्नदेहप्रतिच्छन्दप्रतिमाङ्गैस्तु नामभिः।
दृश्यो देवसमाख्यातः ... ... ॥ (अ० ३३, १-३ श्लो०) एवं त्रिविधमपि लिङ्गं पुंशिलया कार्यमित्याह-लिङ्गानीति । काश्यपशिल्पे तु (पुंशिलाभिः कृतं लिङ्गम्' (अ० ४९, ५९ श्लो०) इत्यविशेषेण लिङ्गमात्रोल्लेखः कृतः। व्यक्तमाह मयमते"सकलं निष्कलं मिश्रं कुर्यात् पंशिलया सुधीः” इति ।
(अ० ३३, १० श्लो०) पीठिकेत्यादि-पीठिका पिण्डिका गौरीपीठमित्यर्थः, न तु पादशिला,
पुंशिलाभिः कृतं लिङ्ग स्त्रीशिलाभिस्तु पिण्डिका ।
नपुंसकशिलाभिस्तु पादाधारं समाचरेत् ।। (अ० ४९, ५९-६० श्लो०) इति काश्यपशिल्पे,
बिम्बार्थ पुंशिला प्राह्या पीठा) स्त्रीशिला तथा।।
नपुंसकशिला पादशिलार्थमखिले मता॥ इति । (अ० १, २५ श्लो०) शिल्परत्नोत्तरभागे च पादशिलापीठशिलयोर्द्वयोः पृथग्जातीयशिलासाध्यत्वेन निर्देशात् । लौकिकदृष्ट्यापि युक्तमचेतनस्य पादाधारस्यैव क्लीबशिलया घटनम् , योनिपीठस्य च शक्तिस्वरूपस्य स्त्रीशिलया निर्माणमिति । ग्रन्थकृता तु वक्ष्यमाणश्लोके ब्रह्मकर्मशिलैरित्युक्त्वा पादाधारशिला संगृहीतेति ज्ञेयम् । शक्तिमूर्तयः स्त्रीदेवताप्रतिमाः। तथा च मयमते
"युञ्जीयात् स्त्रीशिलाः सम्यक् नारीवेरञ्च पिण्डिका" (अ० ३३, १० श्लो०) भारीबेरञ्च पिण्डिकेति नारीबेरे स्त्रीप्रतिमायां पिण्डिकायां गौरीपीठे च इत्यर्थः। अन्न मूर्तय इति द्वितीयार्थे प्रथमा।
५। पण्ढोपलेनेति । नपुंसकशिलया ब्रह्मकर्मशिले कर्तव्ये, तथा प्रासादतलकुण्डादि कर्म च कुर्यादित्यर्थः। एवञ्च 'तथे'त्यर्द्धान्तरितमेकं पदम् । तथा च मयमते
पण्डोपलेन कर्त्तव्यं ब्रह्मकूर्मशिले तथा। नन्द्यावर्त्तशिले वापि कर्त्तव्या तेन चाऽऽत्मना ।
प्रासादतलकुड्यादिकर्म कुर्याद विचक्षणः। (अ० ३३, ११-१२ श्लो०) ब्रह्मकर्मशिले इति तत्तन्नामकपादाधारशिलाद्वयी। तथा चाऽधस्तादुद्धृतयोः काश्यपशिल्परनबचनयोः नपुंसकशिलाकर्त्तव्यतया 'पादाधार' इति ‘पादशिलार्थ'मिति च यदुक्तं तस्यैवायं व्यास इति मन्तव्यम् । पादशिला हि प्रतिमाधस्तात् स्थापनीया शिला, तस्यान ब्रह्मशिलेति फर्मशिलेति च द्वौ भेदौ। कूर्मशिलेत्यत्र 'कर्मशिले'त्याग्नेयमात्स्यसमराङ्गणसूत्रधारेषु पाठः । तदेतदुभये अपि शिले उपर्यधःक्रमेण पादयोरधः स्थापनीये इति पुराणादिभ्यः समुपलभ्यते । तथा चाग्नेये
For Private And Personal Use Only