SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपमण्डने धरणेन्द्रः पद्मकश्च सर्वे शान्तिकराः स्मृताः । यक्षरूपाधिकाराश्च निधिहस्ताः (१)शुभोदराः ॥ ३१ ॥ (२)सुनाभ्यो दुन्दुभश्चैव क्रमेणाष्टौ प्रकीर्तिताः । इत्यष्टौ च प्रतीहारा वीतरागाः प्रकीर्तिताः ॥ ३२ ॥ (३)नागरादिपूरग्रामे सर्वे विघ्नप्रणाशनाः । छत्रत्रयं जिनस्यैव रथिकाभिस्त्रिभि(४)युताः ॥ ३३ ॥ अशोकद्रुमपत्रैश्च देवदुन्दुभिवादिकैः । सिंहासनमसुराद्यो गजसिंहा विभूषिताः ॥ ३४ ॥ मध्ये च कर्मचक्रं च तत्पार्श्वयोश्च यक्षिणी। द्वितालविस्तराः कार्या बहिः परिकरस्य तु ॥ ३५ ॥ दैये तु प्रतिमा तुल्या तयोरूर्वे तु तोरणम् । वाहिकाबाह्यपक्षे तु (५)गोसिंहैरलंकृताः ॥ ३६॥ कर्तव्या द्वारशाखा च तत्तन्मूर्तिगसंयुता । तोरणं पञ्चधा प्रोक्तं रथिकायें च देवताः ॥ ३७॥ ललितं चेतिकाकारं त्रिरथं वलितोदरम् । श्रीपुञ्ज पञ्चरथिकं सप्तावानन्दवर्धनम् ॥ ३८ ॥ रथिकायां भवेद् ब्रह्मा विष्णुरीशश्च चण्डिका । जिनो गौरी गणेशश्च स्वे स्वे स्थाने सुखावहाः ॥ ३९॥ इति परिकरः । श्रीमद्देशे (६)भेदपाठाभिधाने (७)क्षेत्राख्येऽभूत् सूत्रधारो वरिष्ठः । पुत्रो ज्येष्ठो मण्डनस्तस्य तेन प्रोक्तं शास्त्रं मण्डनं रूपपूर्वम् ॥ ४० ॥ इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्र रूपमण्डने (८)षष्ठमोऽध्यायः समाप्तः । ॥ समाप्तश्चायं ग्रन्थः ॥ (१) 'शुभोदयाः' इति स्यात् । (२) 'सुनाभो' इति स्यात् । (३) 'नगरादिपुर' इति स्यात् । (४) '-युतम्' इति स्यात् । (५) 'गोसिंहैः समलंकृताः' इति स्यात् । (६) 'मेद-' इति स्यात् । (७) 'क्षेत्राख्योऽभूत्' इति स्यात् । (८) 'षष्ठोऽध्यायः' इत्येतन्मातं साधु । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy