________________
Shri Mahavir Jain Aradhana Kendra
३२
www.kobatirth.org
रूपमण्डने
मातुलिङ्गञ्च नागेन्द्रं डमरुं बीजपूरकम् । नन्दी मुकुटशोभाढ्यः (१) सर्वाभरणभूषितः ॥ १०० ॥ खट्वाङ्गञ्च कपालञ्च डमरुं बीजपूरकम् । दंष्ट्राकरालवदनो महाकालस्तु दक्षिणे ॥ १०१ ॥ इति पूर्वप्रतिहारौ ।
Acharya Shri Kailassagarsuri Gyanmandir
तर्जनी च त्रिशूलञ्च डमरुं गजमेव च ।
हेरम्बो वामभागे स्याद् भृङ्गी दक्षिणतः स्मृतः ॥ १०२ ॥
गजं डमरुखटुाङ्गं तर्जनीं वामहस्ततः ।
उभौ च दक्षिणे द्वारे भृङ्गी दक्षिणतः स्मृतः ॥ १०३ ॥ इति दक्षिण प्रतिहारौ ।
त्रिशूलं डमरुञ्चैव खट्ाङ्गं च कपालकम् ।
कपालं डमरुं दन्तं बीजपूरं तथा दधत् ॥ १०४ ॥
दुर्मुखः पश्चिमे वामे पाण्डुरो दक्षिणे तथा । [ इति पश्चिमप्रतीहारौ ]
मातुलिङ्गं मृणालञ्च खटु।ङ्गं पद्मदण्डकौ ॥ १०५ ॥ सितो वामेsसितो दक्षे उत्तरद्वारसंस्थितौ । पद्मदण्डञ्च खटुङ्गिं मृणालं बीजपूरकम् ॥ १०६ ॥ [ इत्युत्तरप्रतीहारौ ]
इति (२) शिवप्रतिहारौ ।
इति श्रीसूत्र XX मण्डनविरचिते वास्तुशास्त्रे रूपमण्डने शिवमूर्त्तिशिवलिङ्गलक्षणाधिकारश्चतुर्थोऽध्यायः ॥ ४ ॥
(१) 'सर्पाभरण -' इति स्यात् । ( २ ) ' शिवप्रतीहारा:' इति स्यात् ।
For Private And Personal Use Only