SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चतुर्थोऽध्यायः दक्षिणः कण्ठलग्नोऽस्या वामो हस्तः सरोजधृक् । विभोमकरो लक्ष्म्याः कुक्षिभागस्थितः सदा ॥ ३५ ॥ सर्वेषामेव देवानां युग्मं युग्मं विधीयते । तेषां शक्तिः पृथग्रूपा तदस्त्रवाहनाकृतिः) ॥ ३६ ॥ इति युग्मम् । अथ लिङ्गानि । स्थिरलक्ष्मीप्रदं हैमं (१)तारजञ्चैव राजतम् । प्रजावृद्धिकरं (२) ताम्रं वज्रमायुर्विवर्धनम् ॥ ३७ ॥ (३) विशेष कारकं कांस्यं पित्तलं भुक्तिमुक्तिदम् । सीसकं (४) शकुल्लिङ्गमायसं ( ५ ) पुरिनाशनम् ॥ ३८ ॥ अष्टलोहमयं लिङ्गं कुष्ठरोगक्षया ( ६ ) पहम् । त्रिलोहसम्भवं लिङ्गमन्तर्धानप्रसिद्धिदम् ॥ ३९ ॥ [ इत्यष्टलोहलिङ्गफलम् ] आयुष्यं हीरकं लिङ्गं भोगदं मौक्तिकोद्भवम् । सुखकृत् पुष्पर।गोत्थं वैदूर्थं शत्रुमर्दनम् ॥ ४० ॥ Acharya Shri Kailassagarsuri Gyanmandir श्रीपदं पद्मरागञ्च इन्द्रनीलं यशः प्रदम् । लिङ्गं मणिमयं पुष्ट्यै स्फटिकं सर्वकामदम् ॥ ४१ ॥ [ इत्यष्टरत्रलिङ्गफलम् ] रत्नलिङ्गं द्विधा ख्यातं स्वपीठं धातुपीठकम् । धातुजं तु स्वयोनिस्थं सिद्धिमुक्तिप्रदायकम् ॥ ४२ ॥ ताम्रजं पुष्परागस्य स्फटिकस्य तु ( ७ ) राजितम् । ताम्रजं मौक्तिकस्यापि शेषाणां हेमजं मतम् ॥ ४३ ॥ [ इति पीठविधिः ] For Private And Personal Use Only २५. (१) 'राजतञ्चैव राज्यदम्' इति स्यात् । (२) 'राङ्गं ताम्रमायुःप्रवर्धनम्' इत्याकरे । (३) 'विद्वेष-' इति स्यात् । (४) 'वंशकुलिङ्ग-' इति स्यात् । (५) 'रिपु- इति स्यात् । (६) 'वहम्' इति स्यात् । (७) 'राजतम्' इति स्यात् । रूप--४
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy