________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपमण्डने
[ वरुणः] (१) वरपाशोसलं कुण्डी हस्तैर्बिभ्रत् क्रमाञ्च यः । नक्रारूढः स कर्तव्यो वरुणः पश्चिमाश्रितः ॥ ३५ ॥
पवनः] वरं ध्वजपताकाञ्च कमण्डलु करैर्दधत् । मृगारूढो हरिद्वर्णः पवनो वायुदिक्पतिः ॥ ३६ ॥
[कुबेरः] गदानिधिबीजपूरकमण्डलुधरः करैः । गजारूढः प्रकर्तव्यः (२) सौम्यो यो नरवाहनः ॥ ३७॥
[ईशानः] वरं तथा त्रिशूलञ्च नागेन्द्रं बीजपूरकम् । बिभ्राणो (३)वृषभारूढो ईशानो धवलद्युतिः ॥ ३८ ॥
इति दिक्पालमूर्तिध्यानम् । इति श्रीसूत्रधारमण्डनविरचिते रूपमण्डने वास्तुशास्त्रे ब्रह्मसूर्यादिग्रहदिक्पाल
मूर्त्यधिकारो नाम द्वितीयोऽध्यायः ॥ २ ॥
(१) 'वरपाशोत्पलं' इति स्यात् । (२) 'सौम्यायां' इति स्यात् । (३) 'वृषभारूढ' इति स्यात् ।
For Private And Personal Use Only