________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपमण्डने
[पर्यः] सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् । द्विभुजञ्चैकवक्तञ्च श्वेतपङ्कमधृत्करम् ॥ १८ ॥ वर्तुलं तेजसो बिम्ब (१)मध्यस्थं रक्तवाससम् । आदित्यस्य त्विदं रूपं कुर्यात् पापप्रणाशनम् ॥ १९ ॥
[पहाणां वर्णाः] श्वेतः सोमः कुजो रक्तो बुधः पीतो गुरुस्तथा । शुक्रः श्वेतः शनी राहुः (२)कृष्णो धूम्रास्तु केतवः ॥ २० ॥ पद्महस्तो भवेत् सोमः कुजो दण्डकमण्डलुः । अर्धकायः स्थितो राहुः केतुः करपुटाकृतिः ॥ २१ ॥
[ ग्रहाणां वाहनानि] सप्ताश्वरथ आदित्यश्चन्द्रो दशहयः स्मृतः । मङ्गलो मेषमारूढो बुधः सपासनस्थितः ॥ २२ ॥ हंसारूढं गुरुं विद्याद् भेकारूढं च भार्गवम् । शनि महिषमारूढं राहुं कुण्डस्य मध्यगम् ॥ २३॥ सर्पपुच्छाकृतिं केतुं शनि (३)दृष्टा करालिनम् ।
[ग्रहाणां भूषणानि ] (४)गृहाः किरीटिनः कार्या (५)रलकुण्डलशोभिताः ॥ २४ ॥
_[ सूर्यायतनम् ] सूर्यस्याऽऽयतने स्थाप्या वह्रिकोणादितः क्रमात् । कुजो जीवस्तमः शुक्रः केतवो (६)यज्ञः शनिः शशी ॥२५॥
(१) 'पद्मस्थं' इति स्यात् । (२) 'कृष्णौ' इति स्यात् । (३) 'दंष्ट्रा-' इति स्यात् । (४) 'ग्रहाः' इति स्यात् । (५) 'रत्न' इति स्यात् । (६) अत्र 'य' इत्यक्षरमधिकं 'ज्ञः' इत्येव स्यात् ।
For Private And Personal Use Only