SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६५ अष्टमोऽध्यायः त्रिशूलं खड्गचक्रौ च बाणं शक्तिं च दक्षिणे। वामे (च) खेटकं चापं पाशमङ्कशमेव च ॥ ११३ ॥ घण्टां वा परशुं वाऽपि वामहस्ते नियोजयेत् । अधस्तान्महिषं तद्वद् विशिरस्कं प्रकल्पयेत् ॥११४ ॥ शिरश्छेदोद्भवं तद्व( दा? दा )नवं खड्गपाणिनम् । हृदि शूलेन निर्भिन्नं निर्य(इन्तदन्त्र)विभूषितम् ॥ ११५ ॥ रक्तर(क्तिक ? क्तीकृ)ताङ्गश्च रक्तविस्फारितेक्षणम् । वेष्टितं नागपाशैश्च भृकुटीभीषणान (ना ? नम्)॥ ११६ ॥ देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम् । किश्चिदूर्द्ध तथा वाममङ्गष्ट महिषोपरि ॥ ११७॥ इति कात्यायनीमूर्तिः । नृत्ये संस्थानधैशिष्ट्यम् ] भङ्गे भङ्गे मुखं कुर्याद्ध(स्ते ? स्तौ) दृष्टिं च नर्त्तने। हस्तकाद्यं भवेल्लोके कर्मणोऽभिनयेऽखिलम् ॥ १८ ॥ ११३ । 'त्रिशूलं दक्षिणे दद्यात् खड्गं चक्रं क्रमावधः । तीक्ष्णबाणं तथा शक्तिं वामतोऽपि निबोधत ॥ खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ।' इति मात्स्ये । ११४ । 'घामतः सन्निवेशयेविति मात्स्ये पाठः। 'प्रकल्पयेदि'त्यत्र 'प्रदर्शयेदिति मात्स्ये पाठो ध्येयपरत्वेन निर्देशाद् यथा सुश्लिष्ट एवमिहापि निर्मयत्वेनोपपादनात् 'प्रकल्पयेवित्येव पाठः प्रकृतोपयोगी। ___ ११६। एतस्माच्छोकात् परं 'सपाशवामहस्तेन धृतकेशञ्च दुर्गया । वमगुधिरवक्तञ्च देव्याः सिंह प्रदर्शयेत् ॥' इत्ययं श्लोकोऽधिको मात्स्ये। ११८। 'भैरवं कारयेत्तत्र नृत्यमानं विकारणम्' (८७७) इत्यादिपद्ये नृत्यन्मूर्तिदर्शनात्तदुपयोगितयाऽस्थान एव नृत्यसंस्थानं दर्शयितुमाह-भङ्गे भने इति। नर्तने भने भङ्गे नतमस्य प्रतिविच्छेदं प्रतिपादक्षेपमिति यावत्, मुखं हस्तौ दृष्टिञ्च कुर्याद विध्यात्, नर्त्तनविषयोपयोगितया मुखादीनि विन्यस्येदित्यर्थः। अथवा तृतीयश्लोके 'आस्येनाऽऽलम्बयेद गीतम्' इति दर्शनाद् गीतस्य भङ्गे भङ्गे मुखं कुर्यात् , नृत्ये हस्तौ दृष्टिञ्च कुर्यादित्यर्थः कार्यः । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy