________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः (अदो ? आदी) तत्र(१) महालक्ष्मी(२) (न ? नीन्दा
(३)क्षेमकरी तथा। (४)सर्वती (५) महरण्डा च (६) भ्रमणी (७)सर्वमङ्गला ॥४८॥ (८)रेवती ()हरसिद्धिश्च नवदुर्गाभिधानकम् ।
[इति नवदुर्गानामानि ] (पृथुमे ? पृथगे) कैकस्यानुक्रमं कथयिष्याम्यनुक्रमात ॥४६॥ वरदं त्रिशूलं खेटं पानपात्रश्च बिभ्रती। नागनीलकण्ठमध्ये महालक्ष्मी() प्रकीर्तिता ॥५०॥
[इति महालक्ष्मीः ] अक्षसूत्रं खड्गखेटं पानपात्रं तथोत्तमम् । नन्दा नाम (संख्या ? समाख्या)ता पूज्यते नन्दहेतवे ॥ ५१ ॥
[इति नन्दा ] वर(दं ?) त्रिशूलं पद्मं च पानपात्रं विधुत् करे। क्षेमङ्करी तथा नाम क्षेमारोग्यप्रदायिनी ॥ ५२ ॥
- [इति क्षेमङ्करी] कमण्डलु चक्रखेटं पानपात्रं तथोत्तरे। सर्वती च तदा नाम ( सर्वकृष्ट ? ) प्रदायिनी ॥ ५३ ॥
[इति सर्वती] खड्गं तथा त्रिशूलं च घण्टापात्रं तथोन्नतम् । महरण्डा (तथोन्नाम ? तथा नाम) वन्दिता विदशैरपि ॥५४॥
[इति महरण्डा] ४८। 'क्षेमकरी'त्यत्र 'क्षेमकरीति लक्षणनिरूपणवेलायाम् । ४९। अनुक्रम क्रमेण एकेकस्याः कथयिष्यामि लक्षणमिति शेपः । ५० । नागनीलकण्ठयोरुपादानप्रयोजनम नुसन्धेयम् ।
For Private And Personal Use Only