________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः द्वारे पश्चिमके कार्यः पाण्डुरो वामदक्षिणे ॥ १६३ ॥
इति पश्चिमप्रतीहारौ। मातुलिङ्गं मृणालञ्च खटाङ्गं पद्मदण्डकम् । सितश्चैवोत्तरे द्वारे वामे चैव व्यवस्थितः ॥ १६४ ॥ पद्मदण्डञ्च खटाङ्गं मृणालं बीजपूरकम् । असि(नोगतो) दक्षिणे भागे उत्तरे द्वार एव च ॥१६५॥
[इत्युत्तरप्रतीहारौ] [वाहनविधानम् ] वाहनं यस्य देवस्य तत्तस्याग्रे प्रकल्पयेत् । एक-द्वि-त्रि-च (तत् ?तु:)पश्च वा षट्-सप्तपदान्तरे ॥१६६॥ वाहनं मूर्तिलिङ्गश्च मूलप्रासादमानतः । वृषभस्य (विभावन्ते)लिङ्गे दृष्टां नियोजयेत् ।
सूर्यस्याग्रे भवेत् सोमस्तनसूत्रसमोद(य?यः) ॥१६७॥ १६२ । अनेन वक्ष्यमाणयोः पश्रिमप्रतीहारयोरायुधानि प्रतिपादितानीति तत्त्वम् । सर्वेषामेव प्रतीहाराणां चतुर्भुजस्वमनुमीयते प्रहरणचातुर्विध्यात्, इह तु द्वितीयाधैं त्रीण्येव प्रहरणानि प्राप्यन्ते । रूपमण्डने तु–'कपालं डमरु दण्डं बीजपूर तथा दधत्' (अ० ४, श्लो० १०४) इति यथापूर्वं चत्वार्यवाऽऽयुधानि लभ्यन्ते।
१६३ । प्रतिद्वारं द्वौ द्वौ प्रतीहाराविति प्रकृतम् , इह त्वेक एव लभ्यते 'पाण्डुर' इति। रूपमण्डने-'दुर्मुखः पश्चिमे वामे पाण्डुरो दक्षिणे तथा' (अ०४, श्लो० १०६) इति द्वावेव प्रतीहारौ निर्दिष्टौ। अत्र ग्रन्थकृत्प्रमादादेकः प्रतीहारो लुप्तः किं वा पाण्डरनामानौ द्वावेव प्रतीहाराविति चिन्तनीयम् । एवञ्च 'पाण्डुरा'विति द्विवचनमेव न्याय्यमुत्पश्यामः । अत्र 'वामदक्षिण' इति युगपदुभयपाश्र्चयोरुलेखात पाण्डर इत्येकेनैव नाना निर्दिष्टौ द्वौ प्रतीहाराविति च नायौक्तिकं वक्तुमर्हामः। अपि च पूर्वश्लोके द्विधैवाऽऽयुधानि प्रतिपादितानीत्यपि प्रतीहारद्वैधं निर्बाधमुपन्यस्यति ।
१६३-१६५ । उत्तरद्वारप्रतीहारावाह-सितश्चेति। उत्तरे द्वारे घामे सितः दक्षिणे असित इति वर्तुलोऽर्थः। तदयं संक्षेपः-पूर्वद्वारोभयपार्श्वयोर्नन्दिमहाकालौ, दक्षिणद्वारपाश्र्चयोहेरम्बभृङ्गिणौ, पश्चिमद्वारपार्श्वयोः पाण्डुरौ, उत्तरवारपाश्र्चयोन सितासिताविति ।
देवता-१७
For Private And Personal Use Only