________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः
[वेशरलिङ्गानि ] वेशरे पञ्चपञ्चांशे गर्भाकारे विमानके । त्रयोदशांशकं हीने श्रेष्ठं कुर्याद् विचक्षणः ॥६॥
[लिङ्गप्रासादोचितनक्षत्रानयनम् ] उत्सेधाष्टगुणे सप्तविंशभिर्हरणे ततः। शेषमश्वयुजा(ध्ययं) तु
काश्यपे
लिङ्गोचे द्विर्नवांशे तु रसभूतयुगांशके ।
गुणांशे शान्तिकादिः स्याद् द्राविडे च चतुर्विधम् ॥ (अ० ४९, श्लो० ९३) इति द्विर्नवांश इति चतुर्विधमिति च प्रकृताद भिद्यते ।
८९। वेशरलिङ्गमाह-वेशर इति। प्रमादबहुलोऽयं पाठः । शिल्परते
पञ्चपञ्चांशके देध्ये वसुसप्तषडंशकैः ।
विस्तारं वेशरे विद्यात् पूर्ववज्जयदादिकम् ॥ इति ( उ० अ० २, श्लो० ६५) काश्यपशिल्पे
वेशरे लिङ्गतुङ्गे तु विंशत्यंशविभाजिते ।
भष्ट वा सप्तषट्पञ्चभागैासं प्रकल्पितम् ॥ (अ० ४९, श्लो० ९४) इति चैकार्थबोधकं पद्यद्वयम् । __ ९०। प्रसङ्गात् प्रासादस्य लिङ्गस्य च नक्षत्रादीनि वक्तुमादौ नक्षत्रमाह-उत्सेधाष्टगुणे इति । एतानि च शिल्परत्नादौ आयादिरिति नाम्ना व्यपदिश्यन्ते । शुभानाम् एतेषामतिप्राशस्त्यमाह समराङ्गणसूत्रधारे
आयो व्यय योनि( त्वं ? श्र) ताराश्च भवनांशकम् । गृहनामेति चिन्त्यानि करणानि गृहस्य षट् । त्रिभिः शुभैः शुभं वेश्म द्वाभ्यामेकेन चाशुभम् ॥
करणैश्रतुराद्यैस्तु शुभैरतिशुभं भवेत् ॥ (अ० २६, श्लो० ४९-५१) इति । इह गृहनाम वर्जयित्वाऽन्येषां पञ्चानां लक्षणानि लिखितानि । ___ सम्प्रति व्याख्यायते । कर्तव्यस्य प्रासादस्य लिङ्गस्य वा भाषिते उत्सेधे उन्नतिमाने अष्टभिर्गुणिते सतविंशत्या हृते च अवशिष्टसंख्यया नक्षत्रं जानीयादिति निष्कर्षः। अश्वयुजाय
For Private And Personal Use Only