________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११३
षष्ठोऽध्यायः
[लिङ्गस्य ब्रह्मादिभागाः] ब्रह्मांशश्चतुरस्रो (वोऽधो) मध्येऽष्टास्त्रस्तु वैष्णवः। पूजाभागः सुवृत्तः स्यात् पीठोवं शङ्करस्य च ॥३॥
[नागरलिङ्गानि ] गर्भा(ध) कन्यसं श्रेष्ठ पञ्च(वित्र्यं)शं शिवालयम् । भवन्ति नव लिङ्गानि तयोर्मध्येऽष्ट(भागिके?भाजिते)॥४॥ श्रेष्ठमध्यकनिष्ठानि त्रितिभेदानि तानि हि। नागरे नागरस्यो(क्तक्त)मा(नान)लिङ्गस्य मन्दिरे ॥५॥ अग्नेशभागोऽधिक इति दृश्यते प्रकृते तु ब्रह्मभागः, तस्य सार्धाष्टभागभाजित्वात् । तदनेशपदं ब्रह्मपरं वा स्यात् मूलपदम् ऊद्ध परं वेति तत्रभवन्तो निर्माणनिपुणा जातिशिल्पिनो निर्दिशन्त्विति । परमीशपदस्य ब्रह्मपरत्वेऽपि तस्य मूलभाक्त्वादाधिक्यमसम्भवमेव ।
८३ । ब्रह्मादिभागस्य देशं प्रकारचाऽऽह-ब्रह्मांश इति । ब्रह्मांशातुरस्रः समचतुष्कोणः, स च अधो विधेयः, वैष्णवः अष्टास्रः, स तु मध्ये कर्तव्यः, शङ्करस्य पूजाभागः सुवृत्तः पीठोद्धच स्यादिति योजना । तदेतदाह शिल्परत्ने
यथोचितातानवितानयुक्तां शिलां यथोक्तक्रमतोऽभिभज्य । मूलं युगानं विदधीत मध्यमष्टाश्रक वृत्तमयं परञ्च ॥
इति ( उ० अ० २, श्लो० ७७)। ८४.८५ । सम्प्रति लिङ्गस्य पूर्वोक्तं श्रेष्टमध्यकनिष्ठत्वादिभेदनयमनूद्य नागरादिप्रासादभेदेन लिङ्गमानमाह-गर्भार्धमिति । गर्भाधं शिवालयं शिवलिङ्ग कन्यसं कनिष्ठम् , पञ्चत्र्यंशं गर्भपञ्चांशस्य त्र्यंशं शिवलिङ्ग ज्येष्ठम् इति पूर्वोक्तानुवादः। प्रस्तुतमाह-भवन्तीति । तयोर्मध्ये ज्येष्ठकनिष्ठयोर्मध्ये नवांशीकृतस्य गर्भस्य पञ्चांशे इत्यर्थः, पूर्व तस्यैव मध्यमत्वाभिधानात् ; अष्टभाजिते अष्टभिविभक्ते नव लिङ्गानि भवन्ति ; तानि च श्रेष्ठमध्यकनिष्टानीति त्रित्रिभेदानि भवन्तीत्यर्थः । निगमयति-नागर इति। नागरे मन्दिरे नागरस्य लिङ्गस्य मानम् इत्युक्ताम् । शिल्परत्ने 'नागरे' इत्यन्न 'वेशरे' इति लिखितं विलक्षणैश्वांशादिभिरयमेव प्रकारोऽभिहितः ।
तथाच
अभिकृत्यंशके (२६) गर्भ पोडशांशं तदुत्तमम् । त्रयोदशांशमधर्म तयोर्मध्येऽष्टभाजिते ॥
नव लिङ्गानि सिध्यन्ति वेसरे तानि कल्पयेत् । ( उ० अ० २, श्लो० ६४-६५) देवता-१५
For Private And Personal Use Only