________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम्
[शैललिङ्गनामानि]
(१)श्रीभवं (२)(नु ?तू)द्भवं (३)भवम् ॥७०॥ (४)भयहृत् (५)पाशहरणं (६)पापहस्तेज उच्यते। ततः परं (७)महातेजा ()परापर(क)म(खे ? हे)श्वरम् ॥७१॥ (१० शेखरश्च (११)शिवं (१२ शान्तं (१३)मनोह्लादकरं ततः। (१४)रुद्रतेजः (१५)सदात्मज्ञं (१६)वामदेव (१७)मघोरे(१८)श्वरम् ॥७२॥ (१६)तत्पुरुषं (२०)तथेशानं (२१)मृत्युञ्जय(२२)विजयक्रमात् । (२३)किरणाक्ष(२४)महोरास्त्रं (२५)श्रीकण्ठं (२६)मुनिवर्धनम् ॥७३॥ (२७)पुण्डरीकं (२८)सुवक्ताख्यम् (२६)उमातेज (३०विश्वेश्वरम् । (३१) त्रिनेत्रं (३२)त्र्यम्बकं चैव (३३)महाकालञ्च नामतः ॥७॥
[प्रासादमानेन लिङ्गमानम् ] हस्तमानं भवेल्लिङ्गं वेदहस्ते सुरालये। (ये? ज्ये)ष्ठलिङ्गन्तु (वेदेशं? वेदांशे) षट्त्रिंशे नवहस्तकम् ॥७॥
पञ्चादिभूतवेदान्तं ? न्ते) प्रासादे हस्तसंख्यया। मध्यमं पञ्चमांशेन हस्तादिनवहस्तकम् ॥७॥ रित्यादि(१)युगलं चान्ते हस्तसंख्या शिवालये।
षडंशेन प्रकर्त्तव्यं हस्तादि (भव ?नव)हस्तकम् ।७७॥ ७६। प्रासादमानस्यावधिमाह-पञ्चादीति। पञ्चसंख्याया आदिः पञ्चादिः चतु:संख्येत्यर्थः। तथा च चतुर्हस्ततो भूतवेदान्ते पञ्चचत्वारिंशद्वस्तमिते प्रासादे हस्तसंख्यया लिङ्ग स्थाप्यमित्यर्थः। 'हस्तमानं भवेल्लिङ्गम्' इत्युक्तत्वादेवमनार्जयेन व्याख्यातम् ।।
७७। 'रित्यादियुगल'मित्ययं दुर्ग्रहार्थः पाठः। यच समानतन्त्र रूपमण्डने 'कृत्वा द्वियुगलम्' (अ० ४, श्लो० ६२ ) इति पाठः सोऽपि दुर्जेयप्रकृतोपयोग इत्युपेक्षितः ।।
'अतिकोमलमेकतोऽन्यतः सरसाम्भोरुहवृन्तकर्कशम्' ।
For Private And Personal Use Only