SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् [प्रकारान्तरम् ] अथवा शूकराकारं महाकायं क्वचिल्लिखेत् । तीक्ष्णदंष्ट्रोग्रघोणास्यं स्तब्धकर्णोर्ध्वरोमकम् ॥७६ ॥ इति नरवराहः । नरसिंहाकृतिं वक्ष्ये रौद्रसिंहमुखेक्षणाम् । भुजाष्टकसमायुक्तां ध्वजपीनसटाश्रिताम् ॥ ७७॥ हिरण्यकशिपु दैत्यं दारयन्ती नखाङ्करैः। ऊरोरुपरि विन्य(स्त ?स्य)खड्गखेटकधा(रणा ? रिण)म् ॥ (तथाऽ ? तस्या)न्त्रमालां निष्कृष्य बाहुयुग्मेन बिभ्रतीम्। आकारं पुरु(षाकस्यै ? षस्यैव)धारयन्ती मनोहरम् ॥ ७९ ॥ मध्यस्थिताभ्यां बाहुभ्यां दक्षिणे चक्रपङ्कजे। कौमोदकी तथा शङ्ख बाहुभ्यामिति(नामतः ? वामतः)॥८॥ अधस्थिताभ्यां बाहुभ्यां दारयन्ती प्रकल्पयेत् । ऊर्ध्वस्थिताभ्यां बाहुभ्यामन्त्रमालां तु विभ्रतीम् ॥८१॥ नीलोत्पलदलच्छायां चञ्चच्चम्पकसप्रभाम् । तप्तकाञ्चनसङ्काशां बालार्कसह(शांशी) लिखेत् ॥८२॥ ७६। 'स्तब्धकर्णोर्ध्वरोमकम्' इत्यत्र 'स्कन्धको+रोमकम्' इति शिल्परत्ने ( २५ अ० ११६ श्लो०) पाठः। __७७। रौद्रसिंहमुखेक्षणामिति भीषणसिंहमुखनेत्रतुल्यमुखनेत्राम् । 'रौद्रपिङ्गमुखेक्षणाम्' इति शिल्परत्नपादटीकाभृतं पाठान्तरम् । ध्वजपीनसटाश्रिताम् इति ध्वजस्थूलकेशरधारिणीम् । 'स्तम्भपीन' इति शिल्परत्ने, 'स्तब्धपीन' इति तत्पादटीकायां पाठः।। ७९ । आकारमिति, मुखादधस्तात् पुरुषाकृतिवदाकृतिमित्यर्थः। शिल्परत्ने इदमधं नास्ति। (शिल्प० उ० २५ अ० ११७-१२० श्लो०)। ८१। अत्र दारणान्त्रमालाधारणयोरनुवादो बाहुविशेषनियमार्थः । शिल्परत्ने अयमपि श्लोको नरसिंहलक्षणे नास्ति । ८२। अत्र नीलोत्पलेत्यादिविशेषणत्रयं पक्षान्तरद्योतकम्। 'अथवा चम्पकप्रभाम्' For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy