SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पञ्चमोऽध्यायः [ चक्रप्रतिष्ठानिषेधः ] (आह ? आहुः) ब्रह्मादयो देवाः सर्वभूतानि केशवः । सदा सन्निहितं चक्रं ? तश्चके) प्रतिष्ठा (कर्मणा स्ततः ? कर्म नास्त्यतः) ॥ ६१ ॥ Acharya Shri Kailassagarsuri Gyanmandir [ मूर्त्तिविशेषाः ] are मरकतप्रख्यः कौशिकाकारनासिकः । चतुर्भुजस्तु कर्त्तव्यो वृत्तनेलमुखस्तथा ॥ ६४ ॥ [ शिलाचक्रविक्रयादिनिषेधः ] शा (लि ? ल ) ग्रामशिलाया यश्चक्रमुद्घाटयेन्नरः । विक्रेता चानुमन्ता च यः परीक्ष्यानुमोदयेत् । सर्वे ते नरकं यान्ति यावदाभूतसंप्लवम् ॥ ६२ ॥ [ शिलाप्रशंसा ] शा (लि ?ल) ग्रामशिलाग्रे तु यो (जुह्वति ? जुहोति ) हुताशनम् । एकातिर्हता सम्यक कल्पकोटिगुणोत्तरा । एतस्मिन् पूजिते देवे त्रैलोक्यं पूजितं भवेत् ॥ ६३॥ इति शालग्रामशिलापरीक्षा* ८७ अयं दशावतारोपक्रम इति च कल्किलक्षणमेवेदमिति निश्चीयते । न च सत्यपि पुरुषोत्तमलक्षणे चक्रभेदेनान्योऽपि पुरुषोत्तमो लक्ष्यत इति वाच्यम्, पूर्वत्रापि द्विचक्रपुरुषोत्तम एव लक्षित इहापि द्वि एव लक्ष्यते इति नैकस्येदं लक्षणं भवितुमर्हतीति । खड्गी इति खड्गाकाररेखावानित्यर्थः । शिलाचकार्थबोधिन्याम्अतिरिक्त सूक्ष्मविलं स्पष्टचक्रं स्थिरासनम् । ( कपाला ? कृपाणा ) कृतिरेखे द्वे द्वारस्योपरि पृष्टके । म्लेच्छनाशी भवेत् कल्की कलिकल्मषनाशनः ॥ इति द्विचक्रकल्किलक्षणम् । प्रकृतग्रन्थे आसन समारूढ इति स्थिरासन इत्यस्यानुवादः । ' खड्गधातृस्वरूपवान्' इति तु मूर्त्यभिप्रायेणेति विभावयामः, कल्किनः खड्गधारित्वस्य पुराणादौ प्रसिद्धत्वात् । ६२ । चक्रमुद्घाटयेदिति संवृतचक्रं प्रकाशीकुर्यादित्यर्थः । पुराणे तु 'मूल्यमुद्भावयेदिति पाठः । For Private And Personal Use Only * इयं शालग्रामशिलापरीक्षा अप्रासङ्गिकी प्रतिभाति । रूपमण्डनेऽपीयमंशतो वर्त्तते । शिल्परवकाश्यपशिल्प- समराङ्गणसूत्रधारादौ तु नामतोऽपि नोपलभ्यते । न युक्त शिल्पिनामुपकारार्थं ग्रन्थनिर्माणप्रवृत्तस्याऽऽजानिकं चक्रं विशेषेण लक्षयितुमिति ।
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy