________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम् अथ चक्र[विशेष]लक्षणानि
[तन्त्र वासुदेधः] द्वारदेशे समे चक्रे दृश्यते नान्त (रायिके ? रीयके)। वासुदेवः स विज्ञेयः शुक्लाभः स्यां(चा?)तितेजसा ॥ २६ ॥
[सङ्कर्षणः] (द्वौचक्रावेकलग्नौ? द्वे चक्रे एकलग्ने)तुपूर्वभागस्तु पुष्क(लालम्)। सङ्कर्षणाख्यो विज्ञेयो रक्ता(भि ? भ)श्वातितेजसा ॥ २७॥
[प्रद्युम्नः] प्रद्युम्नः सूक्ष्मचक्रस्तु पीतदीप्तिस्तथैव च । सुषिरं छिद्रबहुलं दीर्घाकारन्तु यद् भवेत् ॥ २८॥
[अनिरुद्धः] अनिरुद्धस्तु नीलाभो वर्तलश्चातिशोभनः। (रेप्यायां? रेखाणां) त्रितयं (
द्वाद्वारे)पृष्ठं पद्मेनलाञ्छितम्॥
[एतेषां पूजाधिकारिणः ] ब्राह्मणैर्वासुदेवस्तु नृपैः सङ्कर्षणस्तथा। प्रद्युम्नः पूज्यते वैश्यैरनिरुद्धस्तु शूद्रकैः॥३०॥ चत्वारो ब्राह्मणैः पूज्यास्त्रयो राजन्यजातिभिः ।
वैश्यावेव संपूज्यौ तथैकः शूद्रजातिभिः॥३१॥ ___ २६। चक्रभेदान विवक्षुर्वासुदेवमाह-द्वारदेश इति । नान्तरीयके इति चक्रद्वयं परस्परलग्नमित्यर्थः । अतितेजसेति विशेषणे तृतीया, अतितेज उपलक्षित इत्यर्थः । ___ २७। 'द्वे चक्रे अग्रलग्ने तु पूर्वभागे च पुष्करम् । सङ्कर्षणाख्यो विज्ञेयो रक्ताभश्चातिशोभनः॥' इति प्राणतोषणी। पुष्कलमिति र-लयोरभेदात् पुष्करमिति ज्ञेयम् , पुष्करमाकाशं छिद्रमित्यर्थः ।
२९। एता द्विचक्रा इति प्राणतोषणीतो ज्ञायते । ३०। एवं चत्वारि चक्राणि निरूप्य प्रसङ्गात्तेषां पूजाधिकारिण आह-ब्राह्मणरिति द्वाभ्याम् । ३१ । अनत्योऽयं श्लोकः,
शालग्रामाः समाः पूज्या विषमा न कदाचन। समेषु न द्वयं पूज्यं विषमेष्वेक एव हि ॥ इति स्मृत्यन्तरकृतवचनस्यापवादविधया हेमाद्रावुक्त इति वीरमित्रोदयाज् ज्ञायते। अन्न चायं वासुदेवादिपूजाप्रकारः
For Private And Personal Use Only