SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थोऽध्यायः [अथ सूर्यायतनम्] सूर्यो विनायको विष्णुश्चण्डी शम्भुस्तथैव च। अनुक्रमेण पूज्यन्ते फलदाः स्युः सदाऽर्चने ॥ ३५ ॥ आग्नेय(ये ? ) तु कुजः स्थाप्यो गुलाम्ये प्रतिष्ठितः। नत्ये राहुसंस्थानं शुक्रस्थानञ्च पश्चिमे ॥ ३६॥ वायव्ये केतुसंस्थानं सौम्यायां बुध एव च । ईशाने च शनिः स्थाप्यः x xश्च चन्द्रमाः ॥ ३७॥ इति सूर्यायतनम् । इति धातृ-सवितृ-त्वष्ट-वरुण-सूर्य-मित्र-विष्णूनां सप्तानां साम्येन, भग-तपन-गभस्तिक-रवि. पर्जन्यानां पञ्चानाञ्च भिन्नतया नामान्युपलभ्यन्ते । ३५। सूर्यस्यायतने वक्तव्ये प्रसङ्गात्तदर्चनायाः सर्वदेवार्चनमुखत्वं वक्तुं समभिव्याहृतानामन्येषामपि तथात्वमाह-सूर्य इति । अनुक्रमेण पूज्यन्ते चेद एते अर्चने सर्व देवपूजाविधौ फलदाः स्युः, सर्व देवपूजास्वेवाऽऽदावते पूजनीया इत्यर्थः । तथा च स्मृतिः गणेशश्च दिनेशञ्च वह्नि विष्णु शिवं शिवाम् । पूजयेदेवषट्कञ्च ततः पूजा समाचरेत् ॥ इति । अत्र च वह्नि निह्नवानेन ग्रन्थकृता अपक्रमन क्रमोऽपि नारक्षीति विभावनीयम् । यच्च तन्त्रान्तरे आदित्यं गणनाथञ्च देवीं रुद्र यथाक्रमम् । नारायणं विशुद्धाख्यमन्ते च कुलदेवताः ॥ इति प्रकृतश्लोकवदेव पञ्चदेवार्चनं विहितम् , तत्राप्यस्ति क्रमविपर्यय इति नवीनोऽयं पूजापर्यायः । ३६-३७ । आयतने ग्रहसंस्थानमाह-आग्नेय इति । कुज-गुरु-राहु-शुक्र-केतु-बुध-शनिचन्द्राः क्रमेणाऽऽग्नेयत ऐन्द्री यावत् स्थाप्या इत्यर्थः। तथा च रूपमण्डने सूर्यस्याऽऽयतने स्थाप्या वह्निकोणादितः क्रमात् । कुजो जीवस्तमः शुक्रः केतवो ज्ञः शनिः शशी ॥ (अ० २,२५ श्लो०) इति। तमो राहुः, शो बुधः। एवञ्च-ईशाने च शनिः स्थाप्यः' इत्यनन्तरं स्खलनस्थाने'प्राच्या स्थाप्य' इत्यक्षरयतुष्टयं त्रुटितं स्यादित्यनुमीयते । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy