________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः
---::----
अक्षसूत्रं पुस्तकञ्च कमण्डलुवरान्वितः। विश्वकर्मा चतुर्हस्तस्त्रिनेत्रश्चन्द्रशेखरः॥१॥
इति विश्वकर्मा । ऋगवेदादिप्रभेदोक्ता( देन ?) कृतादियुगभेदतः। विप्रादिवर्णभेदेन चतुर्वक्त्रं चतुर्भुजम् ॥ २ ॥ अक्षसूत्रं करे दक्षे शुचिस्तस्या (स्यो? ) तः स्थिता। स्याद् वामे पुस्तकं हस्ते तस्या(स्यो ?)द्धे च कमण्डलुः॥३ कमलासननामानं (माऽयं ? ) सर्ववर्णे हितप्रदः । कर्तृकारापकैः(?) साई लोहितः कमलासनः॥४॥
इति कमलासनः ।
१। अयमध्यायो ब्रह्मादीनां देवानामायुधवर्णवाहनादिनिर्णयार्थ प्रवृत्त इति ज्ञायते एतद्ग्रन्थकृतकृत्यन्तराद् रूपमण्डनात्। तथा च
ब्रह्मादीनाच देवानां देवीनाञ्च यथाक्रमम् ।
आयुधामि तथा वर्ण वाहनं कथयाम्यथ ॥ (इति अ० २,६ श्लो०) अस्य ग्रन्थस्य शिल्पशास्त्रत्वात् तत्कत्तत्वेनाभ्यर्हितस्याऽऽदौ विश्वकर्मणो रूपं निर्दिशति-अक्षसूत्रमिति । अस्मदुपलब्धेषु शिल्पशास्त्रेषु ऋते रूपमण्डनमृते च प्रकृतग्रन्थं न विश्वकर्मणो रूपमुपनिबद्धमुपलब्धम् । रूपमण्डने पुनः किञ्चिद् विलक्षणमेव लक्षणमस्माद पन्थात् । तथा च
विश्वकर्मा चतुर्बाहुरक्षमालाच पुस्तकम् । कम्बां (कम्बु ?) कमण्डलु धत्ते त्रिनेत्रो हंसवाहनः ॥ इति ।
(अ० २, १० श्लो०) २-४। एकस्यैव ब्रह्मणो नामभेदेन चत्वारि रूपाणि निरूपयिष्यन्नादौ कमलासनं वक्त
For Private And Personal Use Only