SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् [तालमानेन मूर्तीनां कर्तव्यता] कीर्ति(कूर्म?)मुखं त(ता?)लमुखं द्वाभ्यां प्रोक्ता विहङ्गमाः। त्रितालैः कुञ्जरा ज्ञेया वेदतालैस्तुरङ्गमाः ॥ ४ ॥ यच्च शिल्परत्न-काश्यपशिल्पयोः 'क्रमाद् वेदाङ्गुलं हरम्' 'क्रमाद वेदांशहानितः' इत्यादिना सर्वत्रेव ताले चतुरङ्गुलहान्या प्रतिमाया उत्तमादित्वमतिदिष्टम् , तदपि नवतालविश्रान्तमिति प्रतीयते । नवतालस्येव कण्ठत उत्तमादित्वकथनात् । कियद्भिर्वा किंविधैर्वा उत्तमादिभेदभित्रैस्तालः कस्य प्रतिमा कार्येत्यपक्षायामपि त्रिधा भिन्नर्नवताले प्रतिमाविधानस्योक्तत्वाद अष्टतालैः पुनरेकविधेरैव तद्धविधानस्याभिहितत्वाच्च। किञ्च-यद्यवं सर्वत्र ताले वेदांशहान्योत्तमादिभेदः कल्प्येत तदैकतालेऽपि तथात्वप्राप्तेमध्यममेकतालमष्टाङ्गुलम् अधमञ्चकतालं चतुरङ्गलं भवेदिति पूर्वोक्तम् 'तदङ्गलादशभिर्भवेत्तालस्य दीर्घता' इति वचनं व्यर्थमेव स्यात् । न चैतदप्युत्तमकतालपरमिति कल्पने नार्थक्षतिरिति वाच्यम् , साइशकल्पने मानाभावात् । न च 'वेदांशहानितः' इत्यादिवचनमेव तत्र मानमित्यपि वाच्यम् , तस्य भवतालपार्यन्तिकत्वस्वीकारेऽपि क्षत्यभावादिति दिक् । .४। कीर्तीति। तालमुखमिति तालानां मुखम् आद्यावयव एकताल इत्यर्थः, यत्र तथाभूम कूर्ममुखं भवेदित्यर्थः। 'एकतालन्नु कूर्मकम्' इति काश्यपशिल्पे (अ० ५०, ८०. श्लो०), 'तालात् कूर्माकृतिहरि रिति शिल्परत्नोत्तरभागे च (अ० ४, ५० श्लो॰) अविशेषेण कूर्मस्यैव विधानादत्राङ्गविशेषकल्पना निष्प्रमाणान्तराऽपि युक्तिसहेति 'कूर्ममुख मिति पाठान्तरं कल्पितम् । तथा हि यदत्र प्रकरणे तालेन प्रमाणमभिहितं तद् दैय॑मभिप्रेत्य, आयामस्तु ग्रन्थान्तरादवगम्यते । तथा च समराङ्गणसूत्रधारे दशतालमूर्ति प्रकृत्य भागमानेनोक्तम् देवादीनां शरीरं स्याद् विस्तारेणाष्टभागिकम् । दवादीना शरार ल्यात त्रिंशदभागायतं चैतद् विदध्याच्चित्रशास्त्रवित् ॥ (अ० ७५, ४-५ श्लो०)। इति। भागश्चतुरङ्गलम् । एवञ्च गोलाकृतेः कूर्मस्य तालेन देयकथनापेक्षया दीर्घाकृतेस्तन्मुखस्य तदुक्तियुक्तिबाहुल्यं भजत इति साध्वियं पाठकल्पना । यद्वा-कूर्मस्य मुखमिव मुखं यस्येति विग्रहात् फर्मावतारी हरिरित्यर्थः पूर्वोद्धृतशिल्परत्रवचनप्रामाण्यादवसेयः । 'कूर्मावतारिणं देवं कमठाकृतिमालिखेत्' (अ० २६, १२३ श्लो०) इति शिल्परलोत्तरभागीयपद्यदर्शनात् कूर्मावतारस्य हरेः सर्वाण्येवाङ्गानि कूर्मसदृशानीति कथं मुखमेव कूर्माकृतीत्युच्यते इति वाच्यम्, अत्र सामान्येन विशेषो लक्षणीयः, तथा च मुखपदमत्रावयवसामान्ये लाक्षणिकमिति न काचिदनुपपत्तिः । अत्र मूले बिन्दू अपि प्रामादिकाविति ज्ञेयम् , प्रक्रमात For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy