________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८
देवतामूर्त्तिप्रकरणम्
उपर्युक्त नियमेन रेखापाताद् ग्रहाणां शुद्धिमशुद्धिञ्च निर्णयेत् । वर्गाष्टके केनोपायेन ग्रहाणां शुद्धाशुद्धिविचारं फलनिर्णयञ्च कुर्यात् तदिदानीमुच्यते । दशाफलं सुविचारसाध्यम्, महाष्टवर्गाष्टवर्गफलन्तु न तथाविधम् एतद् गणितागतमित्यव्यर्थम् ; गणना चेदद्भ्रान्ता स्यात् तदष्टवर्गनिरूपितफलमवश्यमेव घटेत ।
Acharya Shri Kailassagarsuri Gyanmandir
वर्गे ग्रहाणां शुद्ध्यशुद्धिविचारः फलनिर्णयश्च ।
ग्रहस्व येषु राशिषु पञ्चभ्यः अष्टौ यावत् फलरेखास्तिष्ठन्ति, स ग्रहस्तेषु तेषु राशिषु क्रमशः शुभफलवर्द्धको भवति । चतस्रो रेखा यदि तिष्ठन्ति तदा समफलप्रदः; तिस्रो agar ar रेखा तिष्ठति चेत् क्रमेणाशुभफलस्य वर्द्धको भवति । रेखाभावे अर्थादष्टशून्यत्वे, तद्वाशौ तु सातिशयमशुभं ददाति । अतो यस्य ग्रहस्याष्टवर्गं गणयेत् स ग्रहो यस्मिन् गृहे स्थास्यति
गृहे यदि चतस्रस्तदधिका वा रेखास्तिष्ठन्ति तदाऽसौ ग्रहः शुद्धः शुभफलप्रदःश्चेति जानीयात् । किञ्च - गृहे यस्मिन् रेखाचतुष्टयस्य न्यूनता भवेत् तद्वाशिगत दशुद्धस्तथाऽशुभफलप्रदश्च । ग्रहगण वर्गाष्टके विशुद्धः सन् यद्युपचयगतो भवेत् ; अर्थाजन्मराशेर्वा जन्मलग्नाद्वा तृतीय- पष्ठदशमैकादशस्थानगतः स्यात्, अथवा मित्रगृहगतः किंवा उच्चस्थानगतो भवेत्, तदासौ ग्रहवातीव शुभदायको भवेत् । किञ्च ग्रहगणोऽशुद्धो भवन् यद्यपचयस्थानगतो भवेत् अर्थात् तृतीयपष्ठदशमैकादशान् विना अन्यराशिगतः स्यात्, शत्रुराशौ नीचराशौ वाऽवतिष्ठते तदातिशयशुभप्रदो भवेत् । यत्र यत्र राशौ ग्रहा वर्गाष्टके शुभदा गोचरे तत्तद्वाशिषु आगच्छन्तस्तात्कालिक शुभदा भवन्ति । तत् स्थानं चेज्जन्मराशितस्तस्य ग्रहस्य गोचरनिर्दिष्टशुभस्थानं भवेत् तदा शुभफलवर्द्धकः स्यात्, तस्य राशेर्जन्मलग्नात् प्रभृति यो भावस्तेन तद्भावोत्थफलं तद्भावनिर्दिष्टञ्च भ्रातृपित्रादीनां तात्कालिकशुभसौख्यं कल्पनीयम् । दृष्टान्तो यथा
वेरष्टवर्गे मिथुनराशौ फलरेखाः पड् भवन्ति ; तदवस्थायां रविश्वेन्मिथुन राशिस्थः अर्थादाषाढमासे विशेषशुभसूचको भवेत् । यत् कर्मणि रविशुद्धेरावश्यकम् आषाढमासे तत् कर्मारम्भेण शुभफलं सुनिश्चितम् ।
यावती यावती रेखा ग्रहाणामष्टवर्गके ।
arati द्विगुणीकृत्य चाष्टाभिः परिशोधयेत् ॥ १ ॥
अष्टोपरि भवेद्रेखा अष्टाभ्यन्तरबिन्दवः ।
अष्टाभित्र समो यत्र समस्तत्र निगद्यते ॥ २ ॥
पूर्वोक्त नियमानुसारेण
प्रत्येकराशौ यावद्वेखापातो भवेत् ता रेखा द्विगुणीकृत्य ततोऽष्टौ वियोजयेत्, ततो यावदवशिष्टं भवेत्, तावदङ्कं तत्तद्राशिषु रक्षेत् । यद्यद्राशिषु द्विगुणितरेखासमष्टिरष्टाभ्यो न्यूना भवेयुः तत्तद्राशिषु अष्टसंख्यातो यावती न्यूमा भवेत् तावतो बिन्दून् स्थापयेत् यद्यद्राशिषु द्विगुणितरेखा समष्टिरष्टौ भवेयुस्तस्मिन् राशौ समं लिखेत् ।
For Private And Personal Use Only