SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः [अन्यानि वैकृतानि ] भूमिर्यदा नभो याति विशेद वसुन्धरां नमः। दृश्यन्ते चान्तरा देवास्तथा राजबधो भवेत् ॥४८॥ देवतायात्राशकटाक्षचक्रयुगकेतुभङ्गपतनानि । सम्पर्यासनसादनसङ्गाश्च न देशनृपशुभदाः ॥४६॥ देवतार्चाः प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च । वमन्त्यग्नि तथा धर्म स्नेहं रक्तं तथा वसाम् ॥ आरटन्ति रुदन्त्येताः प्रस्विद्यन्ति हसन्ति च । उत्तिष्ठन्ति निषीदन्ति प्रधाघन्ति धमन्ति च ॥ भुञ्जते विक्षिपन्ते वा कोशप्रहरणध्वजान् । अवाङ्मुखा वै भवन्ति स्थानात् स्थानं भ्रमन्ति च ॥ एवमाथा हि दृश्यन्ते विकाराः सहसोत्थिताः। लिङ्गायतनविप्रेषु तत्र वासं न रोचयेत् ॥ राज्ञो वा व्यसनं तत्र स च देशो विनश्यति। (अ० २३०, १-५ श्लो०) इति। सहसेति अनिमित्तमित्यर्थः। विशेषस्तु-प्रकृते लिङ्गार्चायतनानामित्युक्तम् अन्न लिङ्गार्चायतनविप्राणामिति। अत्रेदमवधेयम्-यद्ययं स्थिरस्य चरधर्माक्रान्तिलक्षणो भौम उत्पातः, यदि वा विशिष्ट एव कत्रिदुत्पातः स्यादुभयथापि विप्रेष्विति न सङ्गच्छते। न हि विप्रः स्थिरो येन तस्य चरधर्म नर्तनादिकमौत्पातिकं भवेत् । विशिष्टोऽपि न सम्भवेत् तादृशोत्पातस्य क्वाप्यश्रवणात्। तस्मादन वृक्षेष्विति पाठो युज्यते न वेति सुधीभिश्चिन्तनीयम् । अस्ति हि स्थिराणां वृक्षाणां चरधर्मस्य नर्तनादेः प्राप्तिरूप उत्पातो बृहत्संहितादौ निरूपितः। तथा च बृहत्संहितायां वृक्षवैकृतं प्रकृत्य 'हसने देशध्वंसं रुदिते च व्याधिबाहुल्यम्'. 'धूमस्तस्मिञ् जालाथवा भवेन्नपबधायैव' सर्पत्सु तरुषु जल्पत्सु वापि जनसंक्षयो विनिर्दिष्टः' (अ० ४५, २५, २६, ३० श्लो०) इति तत्र तत्र अादिवदेव वृक्षाणामपि तत्तद्वैकृते दोष उक्तः । ____४९। देवतायात्रेत्यादि। देवतायात्रायां देवतोत्सवे शकटस्य प्रकृतोत्सवनिर्वाहार्थं समाहृतस्येत्यर्थः। अक्षल्य चक्रमध्यवर्तिदण्डस्य च, शकटाक्षस्येत्येकं पदं वा, चक्रस्य, युगस्य वाहन For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy